पृष्ठम्:भारतानुवर्णनम्.djvu/४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

२८

राजाभवत् । महाभारतसमयेऽस्य राज्यस्य भगदत्तो राजा बभूव | भगदत्तस्य []'चीना' हिमालयपादस्थाः किराताश्च वशेऽभवन् । तैः सहितम् एनम् अर्जुनो जिगाय । अस्य राजधानी 'प्राग्ज्यौतिषं' नाम ||

 भर्मदेशः— भारतस्य पूर्वसीमायां 'भर्मदेशो'ऽस्ति । स देश: 'सुवर्णभूमिः' इत्युच्यते । एष धान्यानां []भवनैः क्षेत्रै रत्नानाम् आकरैश्वोपसम्पन्नश्चकास्ति । अस्य राजधानी 'अमरपुरम् ॥

 निषधाः- - सिन्धुनद्यास्तीरे निषधदेशः । तस्य []‘नर्वार्’ इति व्यपदिश्यमानं 'नलपुरं' राजधानी सम्भाव्यते । अत्र भारतप्रसिद्धो नलो नाम राजा राज्यमशिषत् ॥

 चेदिदेशः--[]'चन्दरी' इति सम्प्रति मालवेषु विदितां पुरीं 'चेदिपुरीं' वदन्ति । तेनोपलक्षितो देशः 'चेदिदेशो' भवति । अत्र श्रीकृष्णस्पर्धी शिशुपालो राजा बभूव ॥


  1. Chinese.
  2. उत्पत्तिस्थानैः
  3. Narwar.
  4. Chandali.