पृष्ठम्:भारतानुवर्णनम्.djvu/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० अत्र 'रैवतकगिरि 'स्तिष्ठति । विश्रुतं 'प्रभा- सतीर्थं' 'सोमनाथक्षेत्रं' चात्र विद्योतेते । आर्साद् अत्रान्या च राजधानी 'वैलभिः' इति, या 'बलभ- द्रपुरी' इत्युच्यते ॥ - लाटाः -- नर्मदायाः पश्चिमतो 'लाटदशः' । बैटोदरपुरराज्यं हिन्दुराजपालितं तत्रान्तर्भूतं वदन्ति || राजस्थानम् – यो गुर्जरदेशात् पश्चिमोत्तरो ‘मैरुवारो' वर्तते, तेनार्बुदेन च संसृष्टं ' राजस्थानं ' भवति । तत्रान्तर्गतानि जयपुरादीनि राज्यानि राज- पुत्रजातीया राजानः पालयन्ति । अर्बुददेश्या 'अर्बु दा' इति व्यवहारम् अर्हन्ति ॥ सिन्धुदेश:--' सिन्धुनदमुखस्य भूमय आ- सन्नमरुभागाश्च सिन्धुदेशेऽन्तर्भवन्ति । भारतप्रसिद्धस्य धृतराष्ट्रस्य जामाता जयद्रथः सिन्धुदेशम् अशिषत् । अत्र पीटलपुरं प्रधाननगरम् । 1. Somanath. 2. Walabi ( north-west of Bhownaggar). 3. Baroda. 4. Marwar. 5. Rajaputana. 6. (जयपुरम् ) jaipur. आ- दिर्येषां तानि. 7. Rajaputs. 8. अर्बुदपर्वतसमीपदेशो येषाम् अ- भिजनः, तेषाम् अर्बुदसंज्ञा. 9. Sind. 10 Hyderabad. Digitzed by Google