पृष्ठम्:भारतानुवर्णनम्.djvu/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ अस्य देशस्य सम्बन्धाद् अश्वस्य सैन्धव इति संज्ञा निष्पन्ना || - हैहयाः – 'हैहयदेशो' नर्मदासम्बद्धो माल- वदेशाद् दक्षिणतोऽस्ति । अत्र नर्मदायास्तीरे 'माहि- ष्मती' नाम राजधानी बभूव ॥ विदर्भा:--' विदर्भराज्यं' पुरा कृष्णाकूलात् प्रभृति आनर्मदातीराद् विततम् आसीत् । इदं मह- त्त्वाद् ‘मैहाराष्ट्रम्’ इति व्यवहृतम् । कोणावधिका पश्चिमपर्वतभागात् पूर्वः साम्प्रतिकाद् विदर्भदेशात् पश्चिमी देशोऽधुना 'महा- राष्ट्रम्' उच्यते । विदर्भेषु प्रधाननगरं 'विदर्भपुरम्' इति 'कु- ण्डिनपुरम्' इति चोच्यते । तच्च सम्प्रति 'विंदर् इति प्रतीतं सम्भाव्यते ॥ उत्कलाः -- ताम्रलिप्त्या दक्षिणत आकपि- शानदि 'उत्कलदेशो' विततोऽस्ति । अयम् 'ओडू- 1. Maheswar. 2. Berar. 3. Maratta. 4. कोङ्कणा अव- धिर्यस्य तस्मात् . 5. Beder. 6. Orissa. Digitized by Google