पृष्ठम्:भारतानुवर्णनम्.djvu/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ देशः' इत्युच्यते । अत्र समुद्रवेलायां 'पुरी' इति नगरम् अस्ति । अत्र पुण्यं जगन्नाथक्षेत्रम् उल्लसति । अस्य समीपे ' भुवनेश्वरम्' अस्ति, यत्र शिवक्षेत्रम् उल्लसति ॥ कलिङ्गाः -- उत्कलदेशाद् दक्षिणतः 'कैलि- ङ्गदेशः' । अस्य ‘कलिङ्गनगरम्' इति राजधानी स मुद्रवेलाया अनतिदूर आसीत् । अस्मिन् देशेऽन्त- र्गतो महेन्द्रमाली गिरिः ॥ " 6 अन्ध्राः – 'अन्ध्रदेशः ' कलिङ्गदेशाद् अन- न्तरो गोदावरीकृष्णयोर्मध्ये निविशते । अस्य राज- धानी 'अन्ध्रनगरम्' आसीत् । तच्चाद्यत्वे 'वेङ्गी इति प्रसिद्धं सम्भाव्यते । भाग्यपुरराज्ये'ऽयं देशो भूयिष्ठम् अन्तर्भवति । तच्च महम्मदीयो राजा पाल- यति । तस्य राजधानी 'भाग्यपुरम्' इत्युच्यते । त्रैलिङ्गदेशोऽप्यन्ध्रदेशेऽन्तर्गतः । त्रीणि शिव- 1. Puri Jagannath. 2. Northern sircars. 3. Vengi or Vegi. 4. भाग्यपुरराज्यम्= Hyderabad state. 5. Hyderabad. Digitized by Google