पृष्ठम्:भारतानुवर्णनम्.djvu/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३ लिङ्गानि तस्मिन् देशे प्रसिद्धानि सन्ति । अतः स देश: ' त्रैलिङ्ग' इति व्यवहृतः । तम् एनम् अन्ध्र- देशम् अधुना 'तैलिङ्गदेश' इति व्यवहरन्ति || कुन्तलाः -- गोदावरीतीरे 'कुन्तलदेशः' स- न्निविष्टः । अस्य प्रधानं नगरं 'प्रतिष्ठानं' नामासीत् । अत्र सुगृहीतनामा शातवाहनो राजाभवत् ॥ कर्णाटा:-- अन्ध्रदेशाद् दक्षिणतः 'कैर्णाट- देशः' । वनवासिदेश इति व्यवहतो 'महिषकदेश - स्तत्रान्तर्गतः । महिषकदेशम् अद्यत्वे 'महीशूररा- ज्यम्' इति व्यवहरन्ति । अत्र प्रधाननगरं 'मेहिष- पुरं' 'श्रीरङ्गपत्तनं ' च । शातवाहनवंश्या इति प्रती- ता राजान इदं पालयन्ति । एभिराद्रियमाणं महि- षासुरमर्दनीक्षेत्रम् अस्य नगरस्य समीपे वर्तते ॥ - द्रमिलाः--‘द्रमिलदेशः' कर्णाटदेशाद् अ- नन्तरोऽस्ति । अत्र 'चोलमण्डलवेला' पूर्वपर्वतश्रेण्या आसन्नपश्चिमभागाश्च केचिद् अन्तर्भवन्ति । काञ्ची- 1. Paithan. 2. Salivahana. 3. Karnatic. 4. Mysore state. 5. Mysore. 6. Seringapatam. 7. Coromandal coast. 8. Conjeeveram. Digitized by Google