पृष्ठम्:भारतानुवर्णनम्.djvu/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुरम् अस्य प्रधाननगरम् आसीत् । अत्र चेन्नपुरं नागपुरं च पूर्ववेलाम् उपश्लिष्य स्थिते ॥ चेराः—‘चेरदेशः' 'कोयम्पुत्तूरविषयम् आ- त्मन्यन्तर्भावयन् केरलान् स्पृशति ॥ - पाण्ड्याः -- चोलदेशाद् दक्षिणपश्चिमः पा- ण्ड्यदेशः । तंत्र राजधानी ‘मणलूरपुरम्' आसीद् 'मेधुरा' च । तान् इमांश्चोल-चेर पाण्ड्यान् अविशेषेण द्र- मिलदेश इति जना अद्यत्वे व्यवहरन्ति, यत एषु द्रमिलभाषा भूम्ना प्रचरति ॥ कोङ्कणाः – अनुपश्चिमसमुद्रवेलं 'कोङ्कण- देशः’ सन्निविष्टः । ‘सूर्यपत्तनं' 'महाम्बापुरं' 'के- पुरं' च तत्रोल्लसन्ति । कल्याणपुरं याज्ञवल्क्य तेव्याख्यातुर्विज्ञानेश्वरस्याभिजनः ॥ केरलाः --'केरैलदेशः' कोङ्कणदेशाद् अन- 1. Madras. 2. Nagpur. 3. Coimbatore. 4. Manalore. 5. Madura. 6. Konkan. 7. Surat. 8. Bombay. 9. Kalyan. 10. Malabar. Digitzed by Google