न्तरोऽनुपश्चिमवेलम् अस्ति । अस्योत्तरा सीमा 'गो- कर्णक्षेत्रं'; दक्षिणा सीमा कुमारीक्षेत्रम् । कोङ्कणदेशः केरलदेश इत्युभयमपि परशुरा- मेण सृष्टम् । अतस्तत् 'परशुरामक्षेत्रम्' इति व्यप- देशम् अर्हति । दक्षिणकेरलेष्वन्तिमं राज्यं 'वैश्चिमण्डलम्' इत्युच्यते, यत् कुलशेखरनामानः क्षत्रिया राजानः पालयन्ति । वञ्चिमण्डलस्य राजधानी 'अनन्तशय नम्' । भारतवर्षस्य दक्षिणम् अञ्चलं कुमारीक्षेत्रं रा ज्येऽस्मिन्नुद्योतते । तत्र विश्रुतं कन्याम्बायाः क्षेत्रम् अस्ति ॥ रामेश्वरद्वीपः– ‘रामेश्वरद्वीपो' भारतलङ्क- । योर्मध्ये वर्तते । आसन्न श्वायं महोदधिवेलायाः । अत्र 'रामेश्वरं' नाम तनु नगरं विद्यते, यत्र प्रसिद्धं रा- मनाथक्षेत्रम् अस्ति || 1. Along the western coast. 2. Cape Comorin. 3. अन्ते भवम् . 4. Travancore. 5. Trivandrum. 6. कन्याम्बा = Goddess Kanya. 7. Rameswaram Island. Digfized by Google
पृष्ठम्:भारतानुवर्णनम्.djvu/५०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/2a/%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A5%81%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%A8%E0%A4%AE%E0%A5%8D.djvu/page50-932px-%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A5%81%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%A8%E0%A4%AE%E0%A5%8D.djvu.jpg)