पृष्ठम्:भारतानुवर्णनम्.djvu/५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

३६


 सिंहलद्वीपः[]'सिंहलद्वीपः' कुमार्याः पूर्वतः समुद्रमध्ये वर्तते । अयं 'लङ्काद्वीप' इत्यपि कथ्यते । अत्र []रोहणाद्रिस्तिष्ठति, यं रत्नोत्पत्तिस्थानम् आहुः । श्रीरामेण कृतेति प्रतीता []सेतुंरेखा भारतलङ्कयोर्मध्ये दृश्यते ।

 अस्त्यत्र []'निकुम्भिला' नाम प्रदेशः, यत्र लक्ष्मणो []रावाणिं जिगाय | तत्समीपवर्तिनः पुरस्य []'कुलम्ब्' इति संज्ञा निकुम्भिलाशब्दस्य []विकारः सम्भाव्यते ॥

 देशान्तराणि --इत्थं प्रधानभूता देशाः प्रायेण निर्दिष्टाः । ये देशा []जम्बूद्वीपे भारताद् बहिरवतिष्ठन्ते, तेष्वपि कांश्चित् प्राचीनैरार्यैः सम्यग् विदितान् जानीमः ।

 ते च []दक्षिणाहि [१०]'यवद्वीपः’; पश्चिमतो [११]'वनायवः ' [१२]' काम्बोजाः' [१३]'पारसीकाश्च': पश्चिमोत्त-


  1. Ceylon.
  2. Adam's Peak.
  3. Adam's Bridge.
  4. Negambo.
  5. Son of Ravana.
  6. Colombo.
  7. Corrupt form.
  8. जम्बूद्वीप = Asia.
  9. Fur to the south.
  10. Java
  11. Arabia.
  12. Afghanistan.
  13. Persia.