एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
रतः [१]'शकस्थानं' [२]'तुरुष्कस्थानं' च; उत्तरपूर्वतः [३]चीनदेशः । एषु पाश्चात्या देशा उत्तमाश्वानां प्रभवाः प्रसिद्धाः ॥
पुण्यस्थलानि -- उक्तान् पर्वतनदीदेशान् [४]भूयिष्ठान् आर्याः पुण्यस्थलानि मन्यन्ते । अतस्तेषां तत्सेवा न केवलं मनोदेहयोः सौख्याय; किन्तु पुण्यायाप्युपकल्पते । पुण्यस्थलेषु च [५]केदारक्षेत्रं, [६]बदरिकाश्रमो हरिद्वारं, काशीत्यादिकम् अभ्यर्हिततमं [७]तैर्थयात्रिकाः प्रतियन्ति ॥
कृषयो [८]लोहा रत्नानि च. भारते सर्वविधानि धान्यान्योषधयश्च समृध्यन्ते ।
[९]अयो बहुत्रोत्पद्यते । [१०]'सीसं [११]ताम्रं च हिमालये जायते । चन्द्रशिला राजस्थाने लभ्यते । [१२]'बुन्दि-