एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
लखण्डे [१]हीरमणेर्भर्मदेशेऽन्येषां रत्नानां चोत्पत्तिर्दृश्यते।
महीशूरराज्येऽन्यत्र च सुवर्णम् उद्भवति ॥
शीतोष्णस्थितिः.
भारते केचिद् देशाः शीताः; केचिद् उष्णाः केचिन्नानुष्णाशीताः सन्ति । अतः शीतिमोष्मा वा जनेन यथाकामम् अनुभवितुं शक्यते ॥
साम्प्रतिको भारतविभागः.
तदिदं भारतखण्डं नेपालवर्जं षोडशदाभिर्नीवृद्भिर्विभक्तम् [२]आङ्ग्लसास्राज्येन । तेषु च चतुश्शताधिकानि [३]उपवर्तनानि कल्पितानि ॥
जनसङ्ख्या भाषाश्च.
भारतवास्तन्यानां जनानां सङ्ख्याशीतिलक्षाधिकाः [४]षड़विंशतिः कोटय इति सम्भाव्यते |