पृष्ठम्:भारतानुवर्णनम्.djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ भारतानुवर्णनम् । पुरावृत्तप्रकरणं नाम द्वितीयो भागः । - उपोद्घातः - भारते हिन्दवस्तुंरुष्का यौरो- पा अन्ये च जनाः प्रतिवसन्ति । तेषु हिन्दवो भूयि- ष्ठाः । हिन्दवश्चार्या इति पूर्वम् अवोचाम । तद् इदम् भारतखण्डम् इदानीम् आङ्गलो राजा शास्ति । अस्मिन्नन्तर्गतान् कांश्चिद् देशान् हिन्दवस्तुरूष्काच राजान आङ्गलानां साम्राज्यस्यध- श्वराः सन्तः पालयन्ति । आङ्गलानां साम्राज्यात् प्राक् षट् शतानि वर्षाणां महम्मदीया भारतम् उपभुञ्जते स्म । ततः पूर्व तु वर्षाणां सहस्राणि भारतम् आर्येष्वधीनं बभूव । तेषाम् एतेषाम् आर्याणां चरितम् आदितः प्रभृति आ महम्मदीयानां भारतप्रवेशाद् न कुत्रापि ग्रन्थेऽनुक्रमेण तत्त्वतो निर्दिष्टम् । किन्त्वाधुनिकै- 1. This word is generally applied to the Mahamadans. 2. Europeans. 3. English. 4. Rules. 5. साम्राज्यम् = Empire. 6. Subdued. 7. Mahamadans. ६ Digitized by Google