पृष्ठम्:भारतानुवर्णनम्.djvu/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

४३


[]२८५९ तमान्तं तत्त्वदर्शनकालः, २८५९ तमादि []३६०१ तमान्तं बुद्धमतकाल: ; ३६०१ तमादि []४०५९ तमान्तं पुराणकाल इति ।

 कलिवर्षस्यारम्भः क्रिस्तुजन्मनः प्राचीनेभ्यः []३१०२ वर्षेभ्यः प्राग् गण्यते । वर्तमानं कलिवर्षं []५००५ तमम् ॥

आर्याणां भारते प्रवेशः.

 इह किल सर्वासु भाषाषु बहूनां []पदानां समानेऽर्थे []संवादाद् मानवानाम् आदिमं जन्मस्थानम् एकम् एव भवितुमर्हति । तच्च योग्यतया जम्बूद्वीपस्य मध्यदेश इति पण्डिता ऊहन्ते ।

 पुरा मानवेषु केचिज्जम्बूद्वीपस्य मध्यदेशे


  1. एकोनषष्ट्यधिकाष्टशतोत्तरद्विसहस्रतमान्तम् .
  2. एकाधिकषट्शतोत्तरत्रिसहस्रतमान्तम्.
  3. एकोनषट्यधिकचतुस्सहस्रतमान्तम्.
  4. द्व्यधिकशतोत्तरत्रिसहस्रेभ्यः
  5. पञ्चोत्तरपञ्चसहस्रतमम्
  6. मातृ = mother, पितृ = father, भ्रातृ - brother, स्वसृ= sister, दुहितृ = daughter etc.
  7. संवादः - identification.