एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
जनानाम् उत्पीडाद् भोग्यविशेषेष्वभिलाषाच्च तं देशं
विहाय तत इतो गणशः प्रतस्थिरे ।
तेषु दक्षिणतः पारसीकान् अभि प्रस्थितेषु गणेषु कतिपये भारतं प्रविश्य सिन्धुनदस्य पश्चिमं तीरं प्रापुः ।
अर्याणां पञ्चनदवासः.
अथ ते सिन्धुम् उत्तीर्य तं वितस्तां चन्द्रभागाम् इरावतीं विपाशां शुतुद्रिं च नदीम् अन्तरास्थिताः [१]पञ्च क्षितीः पञ्चनदशब्दिता वशे चक्रुः । तत्र ते नवनवान् ग्रामान् नगराणि कृष्याणि च स्थलानि निरवर्तयन् ।
पञ्चसु क्षितिषु वासात् कृषिकर्मणोपजीवनाच्च ते [२]पञ्च कृष्टयः सम्पन्नाः । कृष्टय इति कर्षका उच्यन्ते । ते हि गणाः कृषिकर्मणि निपुणा आसन् । तत एव तेषाम् आर्या इत्यपि नाम प्रतीतम् ।