पृष्ठम्:भारतानुवर्णनम्.djvu/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५ भारते वसन्तः सर्वे हिन्दवस्तेषामेव सन्तानाः ॥ आर्याणां भारताक्रमणम् . अथार्याः सहजाद् व्यवसायाद् ब्रह्मावर्त ब्रह्म- र्षिदेशं मध्यदेशं चाक्रम्य क्रमेण विन्ध्यान्तस्य भार तस्य स्वामिनोऽभवन् । गच्छति काले दक्षिणापथं लङ्कां च तेषां प्रतापः प्रविवेश | अस्य भारताक्रम- णस्याद्यन्तकालं १६०० वर्षाणि वदन्ति । प्राञ्चो भारताभिजनाः प्राग् आर्याणां प्रवेशात् पञ्चनदादिषु देशेषु जनवर्गा उभये प्रतिवसन्ति स्म । तेष्वेके मृगप्राया 'म्लेच्छा' 'राक्षसा' इति च शब्दिताः । प्रतीकारे यत्नवन्तोऽप्येते प्रबलैरायैः परिभूता बभूवुः । आर्यैर्जिताज्जिताच्च देशाद् अपसृत्य ते गिरीन् वनानि च प्रतिपेदिरे । 1. हिमवद्विन्ध्ययोर्मध्यं यत् प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः स कीर्तितः ॥' (मनुः ) विनशनम् = the place where the river Sarasvati is lost in the sand. 2. षट्शताधिकं सहस्त्रम्. - Digitized by Google