पृष्ठम्:भारतानुवर्णनम्.djvu/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ सम्प्रति मध्यभारते वङ्गविषये राजस्थाने द- क्षिणापथे च यान् वन्यजातिवर्गान् पश्यामः, ते तेषां सन्ताना इत्यभिमानः । अपरे तु वर्गा: 'तुरेनिय' नामानः शकस्थाना- दिभ्यो देशेभ्य आगताः । एत आर्याणाम् आज्ञाकरा भूत्वा मताचारान् परिगृह्णन्ति स्म । एषां च वंश्या आन्ध्रेषु द्रमिलेषु कर्णाटेषु केरलेषु चान्तर्भूता इत्यभिमानः । आर्याणां भाषा. आर्याणां भाषा पुरा संस्कृतम् आसीत् । त- दातदा दृष्टान् विषयान् अधिकृत्य तया भाषया ते बहून् ग्रन्थान् क्रमेण रचयाम्बभूवुः येषूपदिष्टम् अर्थ तद्वंश्याः प्रमाणयन्ति । ग्रन्थाश्च वेदो ब्राह्मणम् उपनिषद् इतिहास : स्मृतिः निरुक्तं शिक्षा व्याकरणं छन्दः कल्पो ज्यौ- तिषं गणितं साङ्ख्यं योगो बुद्धदर्शनं मीमांसा वैद्यक पुराणम् इति नामभिः सप्रभेदाः प्रथन्ते । 1. Supposition. 2. Turanians. 3. शकस्थानं (Bactria) आदिर्येषां तेभ्यः. Digfized by Google