पृष्ठम्:भारतानुवर्णनम्.djvu/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७ वेदः वेदश्चतुर्धा— ऋग्वेदो यजुर्वेदः सामवेदोऽथ- र्ववेद इति । ऋग्वेदो मन्त्रैर्देवताः स्तौति । यजुर्वेदेऽपि मन्त्राः सन्ति । किन्तु विधिरर्थ- वादश्च तत्र वर्तेते । कर्तव्यस्याकर्तव्यस्य चोपदेशो विधिः । अर्थवादस्तु प्ररोचनायै कर्तव्यस्य स्तुतिः, प्रद्वेषायाकर्तव्यस्य निन्दा च भवति । 1. ऋग्विशेषा एव गीतियुक्ताः सामवेदः । एषां त्रयाणाम् उपयोगो यज्ञकर्मसु भवति । अथर्ववेदस्तु शत्रुनिग्रहफलेषु कर्मसूपयुज्यते । ब्राह्मणान्युपनिषदश्च प्रतिवेदं भिन्नानि सन्ति । आर्याणां मतं सर्वाणि च शास्त्रतत्त्वानि वेदे - ऽन्तर्गतानि । त एते वेदाः सब्राह्मणाः सोपनिषदो वेदकालब्राह्मणकालयोरन्तराले ऋषिभिर्निर्मिता इति भिन्नानि च भिन्नाश्च भिन्नानीति नपुंसकैकशेषः. Digtzed by Google