पृष्ठम्:भारतानुवर्णनम्.djvu/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९ हस्रा हि यज्ञा वेदेषु प्रतिपादिताः । यज्ञेषु च मह- ती श्रद्धा तेषां स्थिता । क्रमेण तेऽग्न्यादीनाम् अपि कारणं विमृशन्तः सर्वानुस्यूतं चिदानन्दरूपं वस्तु परब्रह्मशब्दितम् उ- पनिषद्भिर्व्यवस्थापयामासुः । अस्य निरन्तरया भा- वनया जीवानां मोक्षो भवति । अन्ये पुनरुपासना- भेडा एतस्याः परिचायकाः । आ मुक्तेर्जीवानां पुन- र्जन्म भवतीति चार्याणामभ्युपगमः । सत्यं शौचं दया दानं क्षमेति महागुगा: पु- ण्यहेतवः । अनृतं क्रोधः परदारसङ्गो मधुपानं लोभो हिंसेति दोषा महापातक हेतवः | एकदारनियमः पा- तिव्रत्यं च परमं ब्रह्मचर्यम् आर्याणाम् || विद्याभ्यासः. विद्याविषये परमः फलवान् यत्न आर्यैराहत आसीत् । विद्वांसो विद्यार्थिनम् उपगतं धनानपेक्षया 1. Omnipresent. ७ Digitized by Google