पृष्ठम्:भारतानुवर्णनम्.djvu/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्या वृत्तेरनुरूपो दृष्टः, स जनस्तस्यां वृत्तौ नियुक्त आसीत् । वृत्तीनां च साधारणत्वाद् ब्राह्मणादीनां श- ब्दानाम् अनियमेन व्यवहार आसीत् । विद्यावृत्त्या हि जनो ब्राह्मण इति व्यवहृतस्तत्त्वज्ञानात् । शूर- वृत्त्या क्षेत्रिय इति राजन्य इति च व्यवहतो विपदो रक्षणात् । अर्यवृत्त्या वैरैय इति व्यवहतो वाणिज्या- दौ प्रवेशात् । शुश्रूषावृत्त्या शूद्र इति व्यवहृतः शो- चनात् । तत्र प्रथमवृत्तिर्गुणबाहुल्याद् उत्कृष्टा भवति । द्वितीया वृत्तिर्हिसासम्बन्धात् तदपेक्षया किञ्चिदवरा । तृतीया वृत्तिरसत्य सम्बन्धात् ततो निकृष्टा । चतुर्थी वृत्तिस्तु बुद्धिगुणहानेः सर्वापेक्षयाधमा । एतदेव वृत्तीनां तारतम्यं ब्राह्मण ईश्वरस्य 1. ब्रह्म शुद्धचैतन्यं (Supreme Being) वेदं वा वेत्तीति ब्राह्मणः 2. क्षताद् विपड़ो जनं त्रायत इति क्षत्रियः 3. विपन्निवारणेन जनं रञ्जयतीति राजन्यः. 4. विशति वाणिज्यादों वैश्य: 5 शो- चति शुश्रूपया शुद्र ● 5. Digfized by Google