पृष्ठम्:भारतानुवर्णनम्.djvu/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ रामायणम्. पुरा भारतखण्डे सूर्यवंश इति कश्चिद् राज- वंशः प्रसिद्धतम आसीत् । तत्र जातस्य श्रीरामस्य चरितं वाल्मीकिर्नाम महर्षिः श्लोकैरुपगायति स्म । त एते श्लोका 'रामायणम्' इत्याख्याताः । रामायण- स्य सप्त काण्डानि | ग्रन्थसङ्ख्या चास्य चतुर्विंशतिः सहस्राणि भवन्ति । अत्र काव्यगुणाः समग्राः स- न्ति । अस्य निर्माणात् प्राग् न किञ्चिदपि काव्यम् अवर्तत; अत इदम् 'आदिकाव्यम्' इत्युच्यते । अ- स्य पठनाद् ईश्वरः प्रसन्नो भवतीति हिन्दूनां विश्वा- सः ॥ श्रीरामचरितम्. अयोध्यायां पुरा 'दशरथो' नाम राजा ब- भूव । तस्य 'कौसल्या' 'कैकेयी' 'सुमित्रा' इति तिस्रो धर्मपत्न्य आसन् । तस्य पुत्रार्थे तत्पुरोहितस्य वसिष्ठ महर्षेरनुमत्या जामाता ऋश्यशृङ्गो नाम महर्षिः पुत्रकामेष्टिम् अनुष्ठितवान् | ततः कौसल्या ज्येष्ठा Diptazed by Google