पृष्ठम्:भारतानुवर्णनम्.djvu/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ अथातिवृद्धो दशरथः सर्वैर्गुणैरुपतं प्रियं ज्ये- ष्ठं पुत्रं रामं राज्येऽभिषेचयितुं मतिं चकार । किन्तु तस्य स मनोरथः कैकेय्या विफलित आसीत । पुरा हि कचन युद्धे कृतोपकारायै तस्यै परितुष्टेन दशरथे- न हौ वरौ यथेच्छवरणीयौ प्रतिश्रुतौ । तयोरेकं वरं 'भरतो राज्येऽभिषेक्तव्य' इति, अन्यं वरं 'चतुर्दश- वर्षाणि वन्यवृत्त्या रामेण वने वर्तितव्यम्' इति च सा साम्प्रतम् अवृणीत । राज्यमनिच्छतः स्वभक्तस्य भरतस्य प्रार्थनया राज्याभिषेकायात्मनः पादुके प्रतिनिधाय रामः सह सीतया लक्ष्मणेन च पितृवाक्यगौरवाद् वनं प्रविवे- श | दशरथस्तु पुत्रवियोगम् असहमानो भूलोकवा- सम् अत्यजत् । वने चरन्तौ रामलक्ष्मणौ कापि कामुकी रा क्षसी शूर्पणखा नाम कदर्थयामास । कदर्थनासंरम्भम् असहमानो मायाविन्यास्तस्या नासां लक्ष्मणश्चकर्त्त । अथ कुपितया तया चोदितस्तद्धाता रावणो Digitized by Google