पृष्ठम्:भारतानुवर्णनम्.djvu/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाम लङ्कापतिः सीतादेवीं मारीचस्वर्णमृगमायया रा. मलक्ष्मणाभ्यां रहयित्वापजहार; लङ्कायां चावरुरोघ । अथ सुग्रीवं वानरपतिं तद्भातुर्वालिनो बधाद् उपकृ तं हनुमत्प्रभृतिभिर्वानरसैन्यैरुपेतं सहायम् आसाद्य सलक्ष्मणो रामः सेतुमार्गेण लङ्कां जगाम; रावणा- तरं च शरणागतं विभीषणं स्वपक्षे चकार । ततः स्त्रदारापहारिणं रावणं सपरिजनं हत्वा रामः सीतां प्रत्यानिनाय । बहुभिः प्रकारैरवगतायां तस्याः शीलशुद्धौ स तया लक्ष्मणेन च सार्धम् अयोध्यां प्रत्यागत्य चिरं धर्मेण राज्यम् अशिषत् । अथ सीतायाः शीलशुद्धिं प्रति मिथ्यापवादो लोके बहुलीबभूव । अतस्तां पतिव्रतां जानन्नपि रा- मो लोकापवादभयात् कठोरगर्भाम् अरण्ये तत्याज । तत्र यमलौ कुशलवौ प्रसूतवती सा महर्षिणा वा- ल्मीकिना परिरक्षिता बभूव । 1. मारीचप्रयुक्तेन कनकहरिणव्या जेनेत्यर्थः । ९ Digfized by Google