पृष्ठम्:भारतानुवर्णनम्.djvu/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ सन' इत्याद्याः शतं पुत्रा अजायन्त; पाण्डोस्तु पञ्च पुत्राः । तेषु 'अजातशत्रु: ' 'भीमः' 'अर्जुनश्च' कु- न्त्यां, ‘नकुलसहदेवौ’ मायां च जज्ञिरे । अन्धो धृतरराष्ट्र राज्याधिकारिणि भ्रातर्युपरते तत्पुत्राणां बालानां पाण्डवानां योगक्षेमं चिन्तयामा- स । तच्चोदनया तान् धार्तराष्ट्र शतं च कृपद्रोणावस्त्र- विद्याम् अध्यापयामासतुः । दुर्योधनस्तु राज्यलोभात् पाण्डवानां प्रच्छन्ने हनने बहून् यत्नान् अकरोत् । स कदाचिद् वारणा- वते लाक्षागृहं निर्माय तत्र पाण्डवान् वासयामास । ते तत्कृतं कपटवधोपायम् अवगत्य स्वयमेव लाक्षा- गृहं दुग्ध्वा मात्रा सह ब्राह्मणवेषधारिणः कश्चित् कालं मैक्षवृत्त्या जीवन्ति स्म । ततः पञ्चालेषु द्रौपदीस्वयंवरे शुल्कतया व्य- वस्थितं लक्ष्यवेधनं कृत्वार्जुनायतीकृतां पञ्चालरा- जपुत्रीं द्रौपदीं मातृवाचा पञ्च ते परिणिन्युः; वर्षप- र्यायभोग्यां च तां व्यवस्थापयामासुः । 1. तस्य धृतराष्ट्रस्य चोदनया । Digfized by Google