पृष्ठम्:भारतानुवर्णनम्.djvu/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयाजातशत्रुर्घृतराष्ट्रेण दत्तम् अर्धराज्यं पा- लयन् विधेयैर्भ्रातृभिः सार्धमिन्द्रप्रस्थे सुखमुवास । द्वारकापुरस्याधीश्वरो यदुवंशयः सर्वेषां सद्गु- णानामायतनं दिव्यमहिमा वीरः श्रीकृष्णः पाण्डवा- नां मातुलपुत्रः सौराष्ट्रेषु प्रसिद्ध आसीत् । स धर्म- प्रीत्या बन्धुप्रीत्या च पाण्डवानां सर्वदा सहायो बभूव । ततः शौर्ये धने कीर्तौ च पाण्डवानाम् उ त्कर्षम् अभिवर्धमानम् असहमानो दुर्योधनो मातुल- शकुनिसहायः कपटद्यूतेन तान् ऐश्वर्यात् प्रग्यावयति स्म; द्रौपदीं सभायाम् अवमेने; द्वादश वर्षाणि वन- वासं, वर्षम् एकम् अज्ञातवासं च तान् अङ्गीकारया- मास । सत्यसन्धाः पाण्डवाः कथमपि तं प्रदासक्लेशं निस्तीर्णवन्तः । अथ तेभ्यो जीवनार्थे याचमानेभ्यः पञ्च ग्रा- मान् अपि धृतराष्ट्र: पुत्रमतानुवर्त्ती न प्रायच्छत् । 1. मातुलः शकुनिः सहायो यस्य सः । Digitized by Google