पृष्ठम्:भारतानुवर्णनम्.djvu/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कल्पसूत्रं स्मृतिनिरुक्तं शिक्षा पुराणम् आगमश्च. कल्पसूत्रं तावत् श्रौतसूत्रं धर्मसूत्रं गृह्यसूत्रम् इति त्रिरूपं भवति । ७२ श्रौतसूत्रं यज्ञानाम् इतिकर्त्तव्यतां बोधयति । धर्मसूत्रं राजकीयान् अन्यांश्च लौकिकान् धर्मान् प्र काशयति । गृह्यसूत्रं गृहसम्बन्धिनो धर्मान् उपदि- शति । भिद्यते । तद् इदं कल्पसूत्रम् ऋषिभिर्निर्मितं प्रतिवेदं 66 स्मृतयः कल्पसूत्रं मूलम् आश्रित्य मन्वादि- भिः प्रणीताः । ताश्च विंशतिर्भवन्ति । तासु वर्णध- र्मा राजधर्मा धर्मव्यतिक्रमे प्रायश्चित्तानि च प्राधा- न्येन दर्शितानि । अद्यत्वे जनैरत्यन्तवर्जिताः केचिद् “मन्वत्रिविष्णहारीतयाज्ञवल्क्योशनोङ्गिराः | यमापस्तम्बसंव- तो: कात्यायनबृहस्पती ॥ पराशरव्यासशङ्कलिखिता दक्षगौतमौ । शातातपो वसिष्ठश्च धर्मशास्त्रप्रवर्तकाः " || ( याज्ञवल्क्यः) Digitized by Google