पृष्ठम्:भारतानुवर्णनम्.djvu/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३ आचारा: स्त्रीपुनर्विवाहादयः स्मृतिकाले वाहता आ- सन् । परं तु दोषशङ्कया कैश्चित् स्मृतिकारस्ते प्रति षिद्धाः । निरुक्तं वेदशब्दानां निर्वचनशास्त्रम् । शिक्षा शब्दानां यथावदुच्चारणम् उपदिशति । पुराणान्युच्चावचानां पुरावृत्तानाम् उपन्यास- मुखेनेहामुत्रसुखस्य साधनभूतान् धर्मान् उपदिशन्ति । तानि च वैष्णवस्कान्दादीनि अष्टादश भवन्ति । ते- षां कर्ता बादरायणापरनामा वेदव्यास इति प्रसिद्धि रस्ति । आगमो देवालयेषु देवस्य प्रतिष्ठापनं, पूजाम् उत्सवं, वाहनालयनिर्माणं चाधिकृत्येतिकर्तव्यतां प्रतिपादयति । आगमस्तन्त्रम् इत्युच्यते । सोऽयं वै- ष्णवः शैव इति द्विधा प्रथते । शैवागमो वैष्णवाग- 1. " ब्राह्मं पाझं वैष्णवं च शैवं भागवतं तथा । तथान्यन्नारदीयं च मार्कण्डेयं च सप्तमम् | आग्नेयमष्टमं चैव भविष्यं नवमं स्मृतम् । दशमं ब्रह्मवैवर्त लैङ्गमेकादशं स्मृतम् । वाराहं द्वादशं चैव स्कान्दं चैत्र त्रयोदशम् | चतुर्दशं वामनं च कौर्म पञ्चदशं स्मृतम् । मात्स्यं च गारुडं चैत्र ब्रह्माण्डं च ततः परम् " || (विष्णुपुराणम्) १० Digitized by Google