पृष्ठम्:भारतानुवर्णनम्.djvu/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ . माद् अतिविस्तृतः । स च कामिकयोगजादिभेदैर्ब- हुरूपः । अस्ति शाक्तोऽप्यागमः । तत्र शक्तेरुपासना- भेदाः प्रतिपाद्यन्ते । आगमेषु क्रियाङ्गतया मन्त्रा अपि नानाप्र- कारा उपदिश्यन्ते । तान् इमान् आगमान् पुराणका- लाद् अर्वाचीनान् आहुः ॥ दर्शनानि. आर्याः स्थूलस्य देहस्य, तदुपयोगिनां बाह्या- नाम् अर्थानां वा विज्ञानमात्रेण न तृप्तिम् आपुः । किन्तु देहातिरिक्तस्य वस्तुनो गवेषणायाम् अपि ते प्रतिभां दूरं सञ्चारयामासुः । अनेन यत्नेन बहूनि दर्शनानि तैरधिगतानि । तेषु साङ्ख्यदर्शनं कपिलो मुनिः, योगदर्शनं पतञ्ज- लिः, न्यायदर्शनं गोतमः, वैशेषिकदर्शनं कणादः, वेदान्तदर्शनं बादरायणश्च स्थापयाम्बभूव । एषु सा- ट्र्यमतम् एकम् अपहाय सर्वाणि दर्शनानीश्वरम् अ- 1. कामिकं योगजं चिन्त्य'मित्या युक्तैर्भेदैः । । Digitized by Google