पृष्ठम्:भारतानुवर्णनम्.djvu/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ङ्गीकुर्वन्ति । अपि च जैनदर्शनं बौद्धदर्शनम् इति द्वे दर्शने त्रिद्येते । सर्वेष्वेषु दर्शनेषु जन्मान्तरं जीवानाम् अभ्यु - पगम्यते; तत्तन्मतानुसरणे मोक्षसिद्धिचाङ्गीक्रियते । किन्तु वेदान्तदर्शन एव परमं तात्पर्यम् उपनिषदाम् इति बादरायणेन युक्तिभिर्निर्णयः कृतः । अतो वेदा- न्तदर्शनम् एवार्या अद्यापि बहुलम् आद्रियन्ते । वे- दान्तदर्शनम् ' उत्तरमीमांसा' इत्युच्यते । सा च व्या- ख्यातृपरम्परया प्रपञ्चनस्य परां कोटिं नीता जगति दीव्यति । अस्या वृत्तिकारो बोधायन:; भाष्यकाराः श्रीशङ्कराचार्यादयः || पर्वमीमांसा. वेदस्य खलु सामान्यतो हौ विभागौ भवतः पूर्वकाण्डम् उत्तरकाण्डम् इति । पूर्वकाण्डं 'कर्मकाण्डम्’ इत्युच्यते । तत्र वेदांशा उपनिषद्भिन्नाः सर्वेऽन्तर्भवन्ति । उत्तरकाण्डं ‘ज्ञानकाण्डम्' इत्युच्यते । तत्रोपनिषन्मा- 1. शङ्कराचार्यो रामानुजाचार्यो मध्वाचार्यः श्रीकण्ठाचार्यश्च । Digitized by Google