पृष्ठम्:भारतानुवर्णनम्.djvu/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6161 टायनीयं व्याकरणम् । अस्य दाक्षिणात्यो मुनिः का- त्यायनो वान्तिकं वितेने; भाष्यं तु पतञ्चलिमुनिः । एतदेव भाष्यं लोके महाभष्यम् इति प्रथितम् । आसीद् अन्योऽपि शब्दशास्त्रस्य प्रपञ्चयिता विन्ध्यजन्मा मुनिर्व्याडिर्नाम । तत्कृतो ग्रन्थः संग्र- हनामा महाभाष्ये स्मर्यते । तं च ग्रन्थं लक्षश्लोकप- रिमितम् आचक्षते । सोऽयं ग्रन्थो भर्तृहरिकाल एव लुप्तो बभूव । भर्तृहरिर्महावैयाकरणो वाक्यपदीयस्य कर्ता कलिवर्षस्याष्टात्रिंशे शतक आसीत् । अनेन कैयटादिभिश्च पाणिनीयं व्याकरणम् अतिविस्तृति नीतम् । अत्र बौद्धैर्बहवो निबन्धा विरचिताः प्रथन्ते । व्याकरणविज्ञान आत्मविचारविद्यासु च न केऽप्यद्य यावद् आर्यान् अतिशेरते। अनेन व्याकर- णेन दर्शितमार्गा यौरोपपण्डिताः शब्दव्युत्पत्तिशास्त्रं दृष्टवन्तः ॥ 'प्रियतद्धिता हि दाक्षिणात्या' इति महाभाण्याद् दाक्षिणात्य - त्वमनुर्मायते । Dignized by Google