पृष्ठम्:भारतानुवर्णनम्.djvu/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९ नाट्यम्. नृत्तं गीतं वाद्यम् इति त्रयं 'नाट्यम्' इत्यु- च्यते; तौर्यत्रिकम् इति च । जरत्तमार्याः साहित्यवि द्याया इव नाट्य विद्याया अपि रसज्ञा बभूवुः । अ- स्या आकरग्रन्थो नाट्यवेद इत्युच्यते । स द्विसहस्र- वर्षप्राचीनेन भरतमुनिना प्रणीतः । अभिनवगुप्ताचा- र्यः ४१०० तमवर्षजीवी विस्तृताम् अस्य विवृतिं त्रि- रचितवान् अभिनवभारतीं नाम ॥ 9 बुद्धमतम्. उक्ते जातिनियमे निरङ्कुशम् अनुवर्तमाने गतेषु परस्सहस्रेषु वत्सरेषु क्षत्रिया वीरवृत्तौ वैश्या वाणिज्यवृत्तौ चासक्ताः सन्तो वैदिकेषु यज्ञकर्मसु ब्राह्मणान् प्रायः प्रतिनिधातुम् आरेभिरे। प्रचीयमाने प्रतिनिधानपक्षे तेषां ब्राह्मणेष्वतिबहुमान आसीत्; वेदाध्ययने चावश्यकत्वबुद्ध्यभावाद् अप्रवृत्तिरासीत् । 1. शताधिकचतुस्सहस्रतमवर्षजीवी । Digitized by Google