पृष्ठम्:भारतानुवर्णनम्.djvu/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ नाम्ना 'गौतम' इति जातिनाम्ना 'शाक्यमुनि' रिति, मतदर्शनाद् 'बुद्ध' इति च प्रसिद्ध आसीत् । सप्त- मेऽह्नि मात्रा वियुक्तम् एनं मातृष्वसा गौतमी परिव- र्धयामास । अयम् अधीतविद्यः प्राप्ते यौवने गोपां नाम शाक्यकन्यकां परिणीय तस्यां राहुलाभिधं पुत्रं जनयामास । एष मानुषभोगेष्वतिदृढया नश्वरत्वभावनया राज्यभोगाद् विरज्य क्वचन रात्रौ प्रसुप्तशान्ताद् अ- न्तःपुरात् प्रवाज । प्रथमं गिरिव्रजम् आसाद्य तत्रत्यासु गुहासु वसद्भ्यः परिव्राजकेभ्य आर्यमततत्त्वानि सम्यग् ज ग्रह | तावता स्वाभीष्टं सुखम् अलब्धं पश्यन् स बुद्धगयायां घोरं तपश्चरितुम् आरेभे । तथा तपस्यन्नयं षट्सु वर्षेष्वतीतेषु क्वचिद् दिने श्रमातिशयाद् मूच्छितो बभूत्र, क्षणेन च प्रति- लब्धायां संज्ञायां तपः परिसमापयामास । अथ फल्गुनीनद्यास्तीरं प्राप्य कस्यापि बोधि- द्रुमस्य मूले यदायं निषसाद, तदा सर्वे पूर्वजन्मवृ Google Digitized by