पृष्ठम्:भारतानुवर्णनम्.djvu/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ जैनानां किन्तु जैना जातिभेदम् अङ्गीचक्रुः । एषु केचिद् दि- गम्बराः, केचिच्छ्रेताम्बराः । बुद्धसमये स्थितिरासीत् । जैनमतं तत्प्रवर्तको महावीरश्च बौद्ध- ग्रन्थे स्मर्येते | महावीरः शाक्यमुनेः किञ्चित् प्राची - न आसीत् । बिम्बिसारश्वशुरस्य स्वसा त्रिशला नाम रा- ज्ञी महावीरस्य जननी । सिद्धार्थो नाम राजा तस्य जनकः । महावीरो वैराग्यसम्पदा तृप्तोऽष्टाविंशे वय- सि राज्यं परित्यज्य द्वादश वर्षाणि विवसनो भैक्षं चचार | ततः प्रबुद्धे दिव्यज्ञाने चत्वारिंशतं वत्सरान् सदुपदेशैर्लोकम् अनुगृह्य मुक्तोऽभवत् । अस्य जिन इत्यपि संज्ञा । मध्यवारे गुर्जरेषु महीशूरराज्ये काञ्चीमण्डले च सम्प्रति जैना वर्तन्ते ॥ वैदेशिकानाम् अभियोगाः २ तक्षकाः – २५०० तमस्य कलिवर्षस्यासन्ने - तक्षका भारतं प्रविश्य मगधेषु राजत्वं प्रतिपेदिरे । 1. मध्यवार = Mewar. 2. पञ्चशतोत्तरद्विसहस्त्र तमस्य | Digitaed by Google