पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचेिता (भत्तेः कर्मापेक्षत्वम्) अन्योन्याश्रयणं धेति । वाशब्दः समुचये; अन्योन्याश्रयणे आत्मा श्रयस्थापि सिद्धत्वात् । अज्ञातसुकृतत्रशदिति । स्ववृत्यर्थ 'व्याधकृत व्याघ्रमरणेन संपादितं गोरक्षणादिकमज्ञातसुकृतमित्युच्यते । यज्ञेन विधि दिषन्तीति वाक्यस्य ह्यर्थश्चिन्त्यत इति । न तु स्वल्पायास साध्यकर्भविधायकवाक्यार्थ इति भावः । आत्माश्रयादिदोषः स्यादेवेति । नन्वन्नद्वेषेण . काश्यै. प्राप्तस्य तत्परिहाराय अन्नविषयौन्मुख्यलक्षणेच्छायां. सत्या मप्युत्क्रटजीर्णादिप्रयुक्तधातुवैषम्यदोषात् तत्र प्रवृत्तिपर्यन्ता रुचिर्न जायत इति तद्रोचकौषधवत्, “निरतिशयानन्दं ब्रह्म ; तत्प्राप्तौ विद्य। साधनम्' इत्यस्मिन्नर्थे प्राचीनानन्तजन्मशतनुष्ठितानभिसंहितफलनित्यनैमितिककमॉप्संजातचित्तप्रसादमहिन्ना संपन्नविश्वासस्य पुरुषस्य ब्रह्मावाप्तौ तद्विद्यायां चैौन्मुख्यलक्षणेच्छायां सत्यामप्यनादि भवसंचितानेकदुतिदोषेण िवषयावर्थे संपाट्यता प्रतिबन्धात् विद्यासाधने श्रवणादौ प्रवृत्तिपर्यन्ता रुचिर्न जायत इति प्रतिबन्धकनिरासपूर्वकतादृशरुचिसंपत्त्यर्थं कर्मसु प्रवृत्तिरुपपद्यत एव । इतरथा * या प्रीतिरविवेकानाम् ? इत्यादिष्वगतेरिति वेत् - न-यद्यनन्यथासिद्धं विविदिषसाधनत्वग्राहेि प्रमाणमुपलभ्येत, स्यात्तदा यथा कथंचिन्निर्वाहः ! न त्वेतदस्ति । “प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यम् ! इति सामान्यन्यायापेक्षया 'सन्प्रत्ययाभिहितेच्छाविषयस्य प्राधान्यम्' इति विशेषन्यायस्य, अश्धन जिगमिषति । इत्यादौ दृष्टस्य अवलत्वादिति भाव । अभिधानमात्रस्य प्रागपि कृतत्वात् तन्मात्रमप्रयोजकमित्यभिप्रेत्याह -उपपादयिष्याम इत्यर्थ इति । तच्छब्दो विविदिषापर इति । न च ध्यानोपक्रमात् प्रागेव विविदिषायाः सिद्धत्वात् पुनस्तदनुष्ठानं व्यर्थमिति शङ्कयम् । प्रत्यहमनुष्टयोपासनाया हेतुभूत विविदिषाया अपि प्रत्यहानुवृत्यर्थे कर्मणामपेक्षितत्वादिति भावः । यावज्जीवं कर्मणोऽपेक्षितत्वे चेति । साक्षाद्वा परंपरया वा कर्मणस्तदपेक्षितत्व इत्यर्थः । ( ततश्च विविदिषार्थत्वपक्षेऽप्पेक्षितत्वमालसत्त्वात्') प्रमाणजिज्ञासायां श्रुतिवाक्ये 1. स्प्रत्यर्थिव्याध - पा. 2. तादृश्बुभुक्षेच्छयः प्रथिन्धक्रनिरासेच्छायामेव पर्य६ सानम् । य! श्री:ि रिति सावये च :िषयानुसरणवः सुखं विक्षितमिति भावः । 3, उपर्येव युक्तारवादत्र कुण्डलीक्रियते ।