पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भात्रप्रकाशिका (साधनसप्तकम्) ७१ प्रदर्शनीये तदुपेक्ष्य सूत्रसंदर्शनस्य प्रयोजनपाह -सूत्रसंदर्शनेनेतेि । आश्रम शेषत्वेऽपि विद्याङ्गत्वमपीतेि; विद्यापेक्षितत्वमित्यर्थः । ततश्च विवेिदिार्थस्य पक्षेऽप्यपेक्षितत्वमांत्रसत्त्वान्नानुपपत्तिरिति भावः । (साधनसप्तकम) वाक्यकारनिर्देश इति । इतरेतरन्द्रस्य साहित्यरूपसमुद्ययावगमकत्वात् । अत एवैकादशाचे “दशपूर्णमासाभ्याम् 'इति द्वन्द्वावगतं साहित्यं मा वाधीति सम् चितानामेवषण्णांयागानां फलसाधनत्वमिति समर्थितमिति भावः । समुचयोऽर्थान्तर मिति । यद्यपि समुचयान्वाचयेतरेतरयोगसमाहाराश्धारोऽपि चार्थाः वाशब्दार्थभूत विकल्पप्रतिद्वन्द्वसमुचग्ररूपा एव । न हि *गामश् चानय ? इति समुचये व,

  • भिक्षामट, गां चानय ' इत्यन्वाचये वा, 'देवदत्तयज्ञदतैौ कुरुतः ? इतीतरेरयोगे

वा, * छत्रोपानहमानय ? इति समाहारे वा वाशब्दार्थभूतविकल्पप्रतीतिरति . तथापि वाशब्दवत् समुचयशब्दोऽन्वाचयसहपठिते समुचयावान्तरविशेवे विकल्पप्रतिद्वन्-ि समुच्चयसामान्ये च वर्तत इति भाव । “जात्याश्रथ - " इत्यत्र * कायशुद्वि विवेकः' इति सामानाधिकरण्यं कथमित्याशङ्कय, “जायाश्रयनिमित्तादुष्टादन्नात्' इति वाक्ये दुष्टभ्यी विविक्तादन्नात् काशुद्धेः साध्यत्वावगमात् कारणवाचिना विवेकशब्देन कार्यभूता शुद्धिर्लक्ष्यत इत्याह - आहारविपयेत्यादिना । जाति दुष्टाः कलञ्जगृञ्जनादय इति । “लशुनं गृञ्जनं चैव पलाण्डु कव (त) कानि च । बार्ताकनालेिकालाबून् जानीयाज्जातिदृषितान् ।। " इत्यादि द्रष्टव्यम् । मुख्ये संभक्युपचास्यान्यथ्यत्वादाह-यद्वेति । देहविवेचनं विवेकोऽस्तु; सामानाधिकरण्यं कथमित्यत्राह - अशुद्धेभ्य इति । मामनुसरे त्येवमन्तमिति ।

  • यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् ।

तं तमेवैति कौन्तेय सदा तद्भावभवितः । तस्मात् सर्वेषु कालेषु मामनुसार युध्य च । ।