पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ श्रीरङ्गरामानुजमुनेिविरचिता इति हि श्रेोककम: । सत्यं भूतहितमिते ।

  • सत्यं भूतहितं प्रेक्तमार्जवं समचित्तता ।

दया भूतहितैषित्वं क्षमा द्वन्द्वसहिष्णुता ।। " इत्यादि प्रमाणं द्रष्टव्यम् । अवदिप्रतिपादकवाक्यजातं क्रोडीकृतमिति ;

  • दान यज्ञः सतां पूज्ञा वदधारणमाजवम् ।

एष धर्मः परो ज्ञेयः फलवान् प्रेत्य चेह च । '; इति वचनजातमिति भावः । भावान्तरमेवाभाव इत्यभिपेत्याह - अभास्वरत्वमिति । दैन्यशब्दविवरणमिति । भास्वरवाभावो दैन्याद्विद्यत इति मतमालम्ध्याह भास्व रत्वविरोधीति । चशब्दो भिन्नक्रम इतेि; 'तजं च' इत्ययं भिन्नक्रम इत्यर्थः । देशकालवैगुण्यात् शोकवस्वाद्यनुस्मृतेर्दैन्यम्, तजं वेत्यर्थः । दैन्यशब्दस्य तज्ज शब्दात् प्राकू प्रयोगाभात्रे तच्छब्दस्य दैन्यपरमशभावप्रसङ्ग इति द्रष्टव्यम् । यद्वा भिन्नबाधतयेति । अस्मिन् पक्षे 'तज्जं दैन्यम् । इत्यस्य चाक्यस्य भेदः, तस्य च पश्चात् प्रयोग , 'तव तज्जं दैन्यम् ’ इति तच्चेत्यस्याध्याहारदोष इत्याद्य स्वरो बोध्यः (विद्याञ्चति श्रुत्यर्थः) अस्य वाक्यस्यार्थमुपजीव्येति । “कषायपक्तिः कर्माणि ' इति ॥श्यस्यार्थमित्यर्थः । उभयोपि निरासकं स्यादिति तश्यावृत्यर्थमिति । उभयोरपि निरास दृष्टम्; तद्वत् कर्मापि स्वप्राचीनं कर्मेव स्वोत्तरवमपि निरस्य त्विति शङ्काव्यावृत्यर्थमित्यर्थः । केचित्तु – 'प्राचीनम् ? इत्येतत् न कर्मापेक्षया प्राचीनपरम्; अनेकजन्मशतानुष्ठीयमानकर्मजातमनुदूतावयवभेदम् 'अविद्यया । इति परामृश्यते । तत्र च यदि प्राचीनपदं तत्प्राचीनपयामशिं, तदा तादृशस्यैव कर्मणो विनाशे तदनन्तरभाविनां विनाशो नास्तीत्युपपादितं स्यात् । न चैतदिष्टम् । न चाविद्याशब्दोऽत्यकर्ममात्रपरामर्शीति शक्यं वक्तुम्; “कषाये कर्मभिः पके । इत्यादिविरोधात् । तैस्तैः कर्मभिस्तत्पूर्वभविनां विनाश इत्येतत्परमपि न वाक्यम्; तथा हि सति आद्येनैव कर्मणा तत्पूर्वभविनां विनाशप्रसङ्गात्; “तीत्र्वा । इत्युके उत्तराश्लेषशाङ्कागा अध्यभावेनः तच्छङ्काया अप्यव्यावर्यत्वात्; तदुत्तरक्षण एव