पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता सुकृतेऽनुगत्प्रवृत्तिनिमितसत्वेन गौणत्वसंभवात् । न च छन्यिायेन लक्षणा स्वीकारे वृतिद्वयविरोधान्न कस्यापि मुख्यत्वमिति वाच्यम् - तथापि “सृष्टीरुप दधाति ? इत्यादवि भूज्ञा लक्षणसंभवे, “ प्राणभृत उपदधाति ? । इत्यादिवत् लिङ्गसमवायमत्रेण गौण्था वृत्याः अनाश्रयणीयवादिति भावः । केचित्तु-वृतिद्वय विरोधो न दृष्णमित्यभिप्रेत्यैतदुक्तमिति वदन्ति ! अन्ये तु, “कालजरामृत्युशोकादयः संख्यातत्वात्' इति वाक्यकारवचनानुसारत् शोकादिष्वपि पापशब्दस्य मुख्यत्वमेव अमुख्यत्वेऽपि न क्षतिः; तावता पाप्मशब्दप्रयोगविषयवसाधारण्यस्य हेतुत्वाभावेऽपि प्रवृत्तिनिमित्तसाधारण्यात् “धर्मेण पापम्' इत्यत्र मुख्यत्वमेवेत्यर्थ इति वदन्ति । (उन्निनीषावाक्यार्थ:) यद्वृत्तद्वयमिति । “थमुन्निनीषति”, “यमधो निनीषति ! इि यच्छध्दद्वयमित्यर्थः । ज्ञानप्रदानद्वारककारयितुत्वविषयमवसीयत इति । यद्वत्तद्वयभिप्रेतस्य पुण्यपापाख्यस्य कर्मणः स्वर्गनरकहेतुभूतकर्मकारयितृत्वप्रयोजको निीषाधोनिनीषाहेतुत्वमस्माद्वाक्यात् प्रतीयत इत्यर्थः । ततश्च कर्मणां कर्मप्रयोज कत्वं ज्ञानद्वारकमिति सिध्यतीत्यर्थः । नन्वेलावतां पशब्दितस्यासाधुकर्मकर्तव्यता ज्ञानद्वारा नरकहेतुभूतकर्मानुष्ठानहेतुत्वसिद्धावपि न सम्यग्ज्ञानोत्पतिप्रतिवन्धकत्वं सिभ्येदिति चेत्, निषिद्धे कर्मणि बलवदनिष्टजनकत्वलक्षणसम्यग्ज्ञानप्रतिबन्धकत्वा भावे तत्र प्रवृतेरेखानुदयप्रसङ्गेनावश्यं सन्धज्ञानप्रतिबन्धकत्वस्य वक्तव्यत्वात् ब्रह्म ज्ञानप्रतिबन्धकत्वमपि सिध्यति । इतरथा दुरितकर्मप्रवृतेरेवासंभवात् । सर्वकर्म देवतासामान्यविष्यमिति । “ बुद्धया संयोजयन्ति तम् ? इतेि बुद्धेर्वेद्यरूपकर्म विशेषानुपादानात् सर्धविषयकज्ञानप्रतिबन्धकत्वमेव सिध्येत्, न तु भगवद्विषयमोक्ष हेतुज्ञानप्रतिबन्धकत्वम् । तथा, “ न देवा यष्टिमानाय ? इति देवतासामान्योपादा नात , “एष द्येव ? इति विवक्षितस्य भगवत एव कारयितृत्वस्य न लाभ इत्यर्थ । सम्यक्षानसामान्यावहिर्भावादिति । इदमुपलक्षणम् भगवतोऽपि देवतासामान्य बहिर्भावादित्यपि द्रष्टव्यम् । (धर्मेण पापनित्येतदर्थ:) पूर्वमेव शिक्षित इति । अत इदानीम् लुक्ति दोषायेति भावः । अत्र श्रय माणत्वादिति । “ धर्मेण पापमपनुदति ? इति प्रकरणे “ तस्माद्यज्ञे परमं वदन्ति ”,