पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरमानुजमुनिविरचिता प्यभ्यर्हितत्वमिति । कभङ्गाश्रयत्वं पूर्वभागविचारसंगतेरिति । अन्तते गत्वा इदमपि केवलकर्मविद्याङ्गकर्मसाधारणत्वात् साधारणमित्यभिप्रायः । प्रागुक्तसंगति विशेषविशिष्टत्वात्तयोरिति । ननु कर्मब्रह्मविचारयोः पौर्वापर्यविचारदशायां कथं तत्सिद्धवत्कारेण, *न हि कर्मविचारात् पूर्वं ब्रह्मवेिचार उपपद्यते, संगतिविशेष विशिष्टत्वा तोः ? इत्युक्तिरिति चेत् - न; क्रमविशेषनियामकसंगतिविशेषविशिष्ट विरुद्धावान्तरवाक्याथैकप्रयोजनत्वरूपाक्यस्यैव कर्मविचारपूर्ववृत्तत्वे प्रधानयुक्ति तया अन्यस्याभ्युचययुक्तित्वेन, सिद्धवत्कृत्य कथने दोषाभावात् । वैषम्यलयविशे पिताया इति । उभयापेक्षायाः साम्येऽपि कर्मविचारे कर्तुमशक्यत्वादुपनिषद्भाग विहितत्वाच सूत्रकृतेह शान्ने विचारितमिति ब्रह्ममीमांसाविचारितत्वमेव फलतया क्लुमुचितम्, न तु ब्रह्ममीमांसविचरितत्वमपि हेतूकर्तुमुचितमिति चेत्-नः वैषभ्यद्वय एव तात्पर्यादित केचित् । अन्ये तु सूलकाराणां स्वतन्त्रेच्छत्वात् जैमि निना न कृतम्, बादरायणेन कृतमित्यपि युक्तान्तप्रदर्शकं तदिति वदन्ति । नियमेनापेक्षितत्वरूपः प्रधानहेतुरिति । ननु यागस्य देवतोद्देशेन द्रव्यत्यागः रूपत्वात् देवताविचार एव सर्वापेक्षया पूर्वभावी किं न स्यात् ? किंच अथशब्दस्य देवताविचारानन्तर्यमवश्याश्रयणीयम्, न तु व्यवहितकर्मविचारानन्तर्यमिति चेत् उच्यते - संकर्षकाण्डोऽप्यविचारितकर्मविशेषविषय एव । जैमिनिहिं द्वादशलक्षणी प्रणीय उवाविचारितांशमालोच्य पुनरपि चतुर्लक्षणीं प्रणिनायेति प्रसिद्धिः । अत एव हि * संहितमेतच्छरीरकं जैमिनीयेन षोड़शलक्षणेन ? इति वृत्तिग्रन्थोऽपि संगतः । अत एव “प्रदानवदेव-'इत्यधिकरणे भाष्ये यत् संवादतोपातम् “नाना देवा पृथक्त्वात् । इति तजैमिनीय एव दृश्यते, न तु देवताकाण्डे काश कृत्स्रीये । अतोऽपि संकर्षः कर्मविषय एव । तत्रैव केषांचिद्देवताकाण्डत्बव्यव हारोऽप्यस्तीति । भाष्ये- सर्वसंमतेति । सर्वेषां संमता सर्वसंमतेति शेषलक्षण धष्ठयाः समासः “क्तस्य च वर्तमाने " इति षष्ठयांस्तु , “तेन च पूजायाम्' इति निषेधादिति द्रष्टव्यम् । वक्ष्यमाणस्तुसामथ्र्यान्तभूत इति । ततश्च तत्परिहारं एवास्यापि परिहार इति भावः ।