पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( पृर्वमीमांसार्थसंप्रहः । अपिनोपपादयिष्यमाणभ्येति । अपिहिँ * अपिः पदार्थसंभावनन्वसर्ग गार्हसमुच्चयेषु' इतेि सनुचयार्थकबेनान्वाचयार्थक् प्राधान्यार्थक वेति भावः । यद्वा निपातानामनेकार्थत्वात् प्राधान्यद्योतकत्वमिति भावः । वक्ष्यमाण गः ज्ञात्रादय इतेि । विशेषपदविवरणरूपात इति भावः । विनातीयादिनिवृतिपरस्य

  • सदेव' इत्यादिवाक्यस्य प्रतिज्ञातार्थप्रमाणतयोदाहरण्यमाणत्वात् विशेषपदम्य विजा

तीयादिपरत्वमेवोचितमित्यभिप्रायेणाह - विजातीपसजातीयस्वगता वेति । अन् यिनो घ्यावृत्तिरूपाश्चेति । भावरूपा अभावरूपाश्चेत्यर्थः । विशेषहिष्णोः ब्रह्मण कथं तत्प्रत्यनीकत्वमित्याशङ्कयाह-वज्ञानेन िनवर्तकमिति । तुच्छता(शून्यतास्या दिति । सर्वप्रमाणानां सविशेषविषयत्वादिति भावः । यत्वस्याप्यशेपशब्देन क्रोडी कृतत्वान्मात्रचा तश्चावच्छेदो व्यर्थ इत्यन्यथा व्याचष्ट - या प्रत्यीकेति । 'प्रत्य नीकम् ? इति निर्देशात् प्रत्यनीकत्वरूपो धर्मोऽनुवर्तत इत्याशङ्काया निवर्तनीयत्वा दिति भाव । इदमप्यशेषादसामथ्र्यात् सिध्यतीत्यन्थथा व्थावष्ट - यद्वा मात्रचा वस्तुतः समस्तेति । न चाशेषविशेषप्रत्यनीकमित्यनेन सिद्धत्वात् पौनरुक् शङ्क्यम्, अशेषविशेषमत्यनीकमित्यस्याशेषविशेषनिवर्तकज्ञानवेिषयत्वमर्थः । इह तु सर्वदा तच्छून्यत्वमुच्यत इति भेदात् । एवकारेण सगुणब्रह्मव्यावृत्तिरिति । इदमुपलक्षणम् -निर्गुणस्यैव ब्रह्मणः पारमार्थिकत्वकथनात् तद्धतिरिक्तसगुणब्रह्मादे प्रपञ्चस्य पारमार्थिकत्वं व्याट्यैत इत्यर्थः ! उत्तरत्रैवकारस्य तदतिरेकीत्यादिग्रन्थेन तथा विवरणादितेि द्रष्टव्यम् । निषेध्यमानात्वं सिध्यतीति दर्शितमिति । नानाशब्दस्य ब्रह्माध्यतिरिक्तनिषेध्येऽपि संभवद्वतिकत्वेन ब्रह्मणोऽपि परामर्शस्या नपेक्षितत्वदिति भावः । [भाष्ये ?] ज्ञात्य तत्कृतज्ञानमेदेति । अत्र ज्ञात च ज्ञेयं च तत्कृतज्ञानं च ज्ञातृज्ञेयतत्कृतज्ञानानि, तेषां भेदाः ; भेदशब्दः प्रत्येक मभिसंबध्यते ; अत एवैकैककोटिष्बवान्तरभेदा इति वक्ष्यति । न चैवं भेदशब्दस्य सर्वान्वितत्वे 'तत्कृतज्ञानभेदः = ज्ञातृज्ञेयावच्छिन्नवृत्तिज्ञानभेद: ' इति भेदशब्दस्य ज्ञानमास्रान्वितत्वप्रदर्शकोतरग्रन्थविरोध इति वाच्यम् – तेनाप्यन्वयसंभवेन तथा निर्देशोपपतेरिति द्रष्टव्यम् । अनेन वृतिस्फुरितेति । अनेन = तत्कृतेति विशेक् णेनेत्यर्थः । तदभावे ज्ञानशब्देन वृतिस्फुरितचैतन्यस्यैव ग्रहणं स्यात्, मृषावादि