पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ श्रीरङ्गरामानुजमुनेिविरचिता मते ज्ञानशब्दस्य वृतिस्फुरितचैतन्य एव प्रसिद्धः । ततश्च ज्ञातृज्ञेयस्वरूपभेदवत् ज्ञानस्वरूपभेदस्यपि स्वरूपयुक्तत्वप्रतीतिः स्यादिति तद्यावृत्यर्थे तत्कृतेत्युक्तमि.ि भावः । विरोधं च स्फोरयत्येवकार इति ! न च पूर्वपक्षिग्रन्थे स्वमतविरोध स्फोरकत्वमयुक्तम्, स्वव्याघातकत्वादिति वाच्यम् ; पूर्वपक्षानुवादशायाम्, 'स्वरूप व्याक्रियैव निराक्रियेति न्यायेन बिरोधमपि स्फोरयन् सान्तहसमनुवदतीत्यभिप्रायात्। केचित्त प्रमाणसिद्धत्वात् विरोधमदोषत्वेन स्फ़ोरयतीति व्याचक्षते । “-भूतं भाण्य तीते समे त्रिषु " इति पाठात् 'पितृभूतोऽसौ ? इत्यादिवत् भूतशब्दस्योपमानार्थ कत्वशङ्कां व्युदस्यति -मिथ्याभूतं मिथ्याभावदिति । उक्तं हेि, “प्रमाणभूत आचार्यः " इति भाष्यं व्याकुर्वता कैयटेन – “प्रमाणभूत इति । प्रामाण्यं प्राप्त इत्यर्थः; भू प्राप्तावित्यस्मात् “ आ धृषाद्वा ? इति णिजभावे रुपम् । वृत्तिविषये च प्रमाणशब्दः प्रामाण्ये वर्तते ! इति । तद्वदिहापि मिथ्याशब्दो मिथ्यात्वपरः । कृतश्च मिथ्यात्ववदित्यर्थसिद्धिरिति भावः । (परमतश्रुत्यर्थः) सदेवेति विजातीयभेदो व्यावत्यैते ; एकमेवेति सजातीयभेदः: अद्वितीयमिति खगतभेद इति । यद्यपि “एकमेवाद्वितीयम्” इति वाक्ये एकशब्देन स्वगतभेदनिरासः, एवकारेण सजातीयभेदव्युदास , अद्वितीयपदेन विजातीयभेदत्युदास इत्येवं पैरैव्यांग्ल्यातम् । उक्तं च -

  • वृक्षस्य स्वगतो मेदः पत्रपुष्पफलदितः ।

वृक्षन्तरात् सजातीयः, विजातीयः शिलादितः । सदसद्वस्तुनोभेदत्रयं प्राप्त निषिध्यते । ऐक्यावधारणद्वैतप्रतिषेधैरुिभिः क्रमात् ॥ ) इति--तथाप्यस्यापि प्रकारस्य तत्र तत्र व्याख्यातत्वादित्थमुपन्यस्तम् । अत एव शंकरभाष्ये कल्पतरौ च, 'सदेवेति मृष्टः प्राकू नामरूपादि व्यावस्यैते; एकमेवेत्यनेन महदादिकं स्वकार्यपतितं नास्तीति निषिध्यते; अद्वितीयमिति निमित्तान्तरं निषिध्यते। इत्युक्तम्; नाधिकम् । [ननु] “ वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादितः ? इति