पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता शारीरकशांकरभाष्यम् – “वाचारम्भणं विकारो नामधेयम् । वाच। केवलमस्तीत्या रभ्यते विकारः, घटः शराब उदश्चनं चेनि । न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति । नामधेयमात्रं खतदनृतम्; मृत्तिकैत्येव सत्यम् ? इति । अतोऽय मपि ग्रन्थस्तदनुवादत्वात् तदनुगुण एव नेतव्यः । ननु, “अथ तस्य भयं भवति” इति वाक्यस्य, (स्यापि), “मृत्योः स मृत्युमाझोति ? इति वाक्यानन्तरमुपादानं युक्तम् अनर्थप्रतिपादकत्वसाधारण्थदित्यत्राह - यदा : खेचेत्यादेरिति । एकन्यायपरि हार्यत्वादिति । अत्रह्मात्मकनानात्वनिषेधपरत्वेन परिहार्यत्वादित्यर्थः । उभयलिङ्गत्वं साकारत्वं निराकारत्वं चेति पाठः । “न स्थानतोऽपि !” इत्यधिकरणे श्रुतिबलात् सविशेषत्वनिर्विशेषत्वरूपलिङ्गद्वयसमुचय इति पूर्वपक्षस्य निरस्तत्वादिति द्रष्टव्यम् । केचित्तु -उभयलिङ्गत्वं साकारनिराकारत्वं साकारत्वं चेत्यन्वयः । तस्मिन्नधिकरणे उभयलिङ्गस्वरूपस्य साकारनिराकारत्वस्यान्यतरलिङ्गत्वसमाश्रय (त्वत्वानाश्रयः) णेऽपि केवलसाकारत्वपक्षस्य | साकारनिराकास्वपक्षस्य] च प्रतिक्षिप्तत्वात् तथोक्तम्; न तूभयलिङ्गशब्दार्थतयेति वदन्ति । दुर्निरूप [ स्वरूप ] त्वात् वाधितत्वादि त्यर्थ इति । बाधितदेशकालनिमित्तकत्वादित्यर्थः । न तावत् स्वरुपापवरक निद्राणपुरुषदृश्यमानैककोणविश्रान्तगिरिनदीसमुद्रादीनां मुहूर्तमात्रशथितपुरुषानुभूय भानविवाहपुत्रोत्पादन्तदुपलालनादीनामुचितो देशः कालो वा संभवति । न वा तदुत्पतौ ज्ञौ वोचितं निमित्तमति । अतो देशकालनिमित्तानां दुर्निरूपवेन बाधतत्वान्मिथ्थत्वमित्यर्थः । स्वामार्थमिष्यात्वप्रदर्शकसूत्रोपन्यासस्य प्रपञ्चमिथ्यात्व प्रसाधनदशायामसंगतिमाशङ्कयाह – स्वामार्थमिथ्यात्वमिति । (परमतपुराणाथेः / “प्रत्यस्तमितभेदम् ?' इत्ययं श्लोकः षष्ठांशे सप्तमेऽध्याये योग प्रकरणे केशिध्वजवचनम् ' । “ज्ञानस्वरूपम् ? इति लोकस्तु प्रथमांशद्वितीया ध्याये नमस्कारश्लोकः । “ परमार्थम्वमेवैकः ? इतीयं चतुःश्लोकी प्रथमांशे चतुर्थेऽध्याये रोमान्तरस्थानां मुनीनामदिवराहस्तुतौ । “तस्यात्मपरदेहेषु ” इति लोकः “ वेणुरन्ध्रविभेदेन ” इति श्रीकश्च द्वितीयांशे चतुर्दशाध्याये आदिभरत श्लोकौ । “यद्यन्योऽस्ति ) इति लोकस्तत्रैवांशे . त्रयोदशाध्याये आदिभरतश्लोकः ।