पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ पाशानेिति । अमीषोमीयपौ, “ अदितिः पाशान् प्रमुझेश्य बहुवचनान्ताशशध्दयुक्तमन्त्रः श्रूयते । स किं पशुगणेशूलकृष्यते, उत प्राकृतावेव निविशत इति विशये, एकस्मिन् पाशे बहुक्नस्थान्याय्यत्वात् बहुपाशवत्सु पशुगणे धूत्कृष्यत इति प्राप्त – 'प्रकृत्यर्थस्य पाशस्य त्रिभक्त्यर्थस्य कर्मणश्चाग्रीषोमीय एव संभवादप्रधानभूतसंख्यानुरोधेनोत्कर्षासंभवातू पाशसंस्था अविवक्षित ; अतो निर्देश मात्रार्थ बहुवचनमिति, “विप्रतिपतौ विकल्पः स्यात् समत्वात् गुणे त्वन्याय्यकल्पनैक देशत्वात्’ इति नवमे (पू.मी. ९-३-१५) व्यवस्थापितमित्यर्थः । प्रकृतिरुच्यत इति शङ्कायामिति । सांख्यमतप्रत्यभिज्ञानादिति भावः। भायां तुप्रकृतिं विद्यादिति। मायां सदसदिलक्षणामवेिद्यां प्रकृतिम्-उपादानं छिदित्यर्थः । “प्रकृतिश्च प्रतिज्ञादृष्टान्तानु परोधात् " इत्यादौ प्रकृतिशब्दस्योपादनार्थश्वदर्शनात् परैरपि तथा व्याभ्यातत्वाचेति द्रष्टव्यम् । केचित्तु प्रकृतिं मयां मिथ्याभूतां वेिद्यदित्यर्थ इत्यप्युद्देश्योपादेयभावं वर्णयन्ति । दोषप्रतिपादनतत्पराणामिति । निर्विशेषस्यापि ब्रह्मणः प्रपञ्चाधिष्ठा नवं दोषवशादिति वक्तुं प्रवृत्तानाम्, “इन्द्रो मायाभिः ? इत्यादीनां न भेदप्रति पादनेऽपि तत्परत्वं संभवतीति भावः । सहृपठेितस्वगतनानात्वमिति । तथा हि सलि मजातीयविजातीययोः संग्रहो न स्यादिति भावः । उपपाद्यप्रमेयाधिक्या भावादिति । जगदुपलब्धिरूपमिथ्यात्वोपपादककारभेदे सत्यप्युपपादनीयांशभेदा (अविद्यायां ऐक्यज्ञाननिवत्यैस्वपम्) अभयम् = अभयार्थमिति । अर्थाभावे “ अव्ययम् ?' इति समास । तंतश्चतुर्थाः “नाव्ययीभावात् ? इत्यभावे रूषम् । यथोपासनं हीति । यद्यपि मृषावादिमते ब्रह्मज्ञानं नोपासनात्मकम्, तथापि तुल्यन्यायतया यथाज्ञानं फलमित्येवग्परं तदिति द्रष्टव्यम् । तद्धेतुभूताविद्येतेि । मोहहेतुभू यश्रावद्मतिपत्तिलक्षणांनवधानरूपेत्यर्थः । ऐक्यविषयतां ज्ञापंयितुमिति । पार मार्थिकैबयविषयतां दर्शयितुमित्यर्थः । ततश्, “ आत्मेत्येवोपासीत ? इत्युपासन विधिवाक्यनिर्दिष्टमैवयं स्वरूपोपदेशापरवाक्यममितत्वात् पारमार्थिकमिति भावः । उपदेशानुगुणधुपासको देवतां प्रत्याहेति । “तत्वमसि ? इति छान्दोग्यवाक्य 1. अर्थाभावे चाद्ब्यमिति. पा.