पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८५३ (अनुभूनेः स्वयन्पछशत्वम् समुचीयते, तदा “ अनुभवापेक्षा च ' इति चशब्देनानुमानान्तरं समुच्यते । यदि चानुमानान्तरं किंचशब्देन समुचीयते, तदा अनेन चशब्देन प्रत्यनुमान निरामः समुचोय इत्यर्थः । क ए नियामक इत्यत्राहेति । ज्ञानस्य सत्या प्रकाशकको ििनवेश कुत इति शङ्कानेिवारकं प्रागुक्तोपसंहारपरं तमादितेि पदमिति भाव । अस्यटुक्तः हेत्वोः सोपाधिकत्वनिरासाचेति ; ज्ञाने पस्काइयं, वस्तुत्वात भासमानत्वाद्वेaि हेत्वोः स्वसत्तया प्रकाशमानत्वाभावस्य परोद्भावितोपाधेर्निरासादित्यर्थः । स्वसै भास त्वादिति । या ज्ञाता यत्पुरुषवेद्य सा तदीयज्ञानजन्येति व्याप्त्या स्वीयमेव ज्ञानम्नुमीयते, नान्यदीयमिति भावः । असाधाण्यतिक्षेपः फलित इति । पुरुषविशेषासाधारण्येत्यर्थः । अथ मर्थः, 'अनुभूतिव्यतिरेकी विषयधर्मः । इत्युताग्रन्थे स्पष्टः ! ये पुनर्द्धित्वादिकं नाभ्युपगच्छन्तीति । यादृशादपेक्षाबुद्धिविषयाद्वित्वाद्युतिः, तादृशापेक्षाबुद्धिविषय वस्तुविशेषोपलम्भ एव त्विदिव्यवहारं जनयति, न द्वित्वादिरूपे किंचिदस्तीति सिद्धान्तिमते प्रतिबन्दी न संभवत्येवेत्यर्थः । आत्मनःसंयोगे व्यभिचारः स्यादिति । क्षणिके आत्मनः संयोगविशेष इत्यर्थः । दृष्टान्तश्च साधनविकल इतेि । सुखदुःखादीनामन्तःकरणर्ममत्वादिति भाव । तदबुभुत्सितग्राह्य दृष्ट मिति । अबुभुत्सितग्राह्यम् =' इदमहं न बुश्येयम्' इति वेिरीतेच्छायां सत्य मपि ग्राह्यमित्यर्थः । तस्याप्यबुभुत्सितग्राह्यत्वान्मानसप्रत्यक्षवेद्यत्वं स्यादिति । तस्यापि मानसपत्यक्षवेद्यत्वेनबुभु सिग्राह्यत्वान्मनसज्ञानान्तरविषयत्वमवश्यंभावी त्यर्थः। ज्ञाने सतीच्छेति । ज्ञाने सतिबुभुत्सेत्यर्थः। सामान्यतो विदिते विशेषतश्चा: विदित एव बुभुत्साया उदयदिति भावः । अबुभुत्सितभाह्मत्वपक्षेऽनुव्यवसायधारा