पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ श्रीरङ्गरामानुजमुनिविरचिता प्रसङ्गमुक्त्वा बुभुत्सतप्रह्मत्वपक्षेऽपि बुभुत्सान्तरितज्ञानपरंपरामाह--किंच मान सेति । ज्ञानं बुभुत्सिता सुखादि तु नेति चेदिति । ततश्च सुखादिषु प्रतीतिव्याप्तिसंभवेऽपि ज्ञानस्य न प्रतीतिव्याप्तत्वम्; बुभुत्साभावे तत्प्रतीतेरनुत्पत्तेः । न च बुभुत्साया अन्योन्याश्रयग्रस्ततया न हेतुत्वमिति वाच्यम्, नानाशब्दसंकीर्ण वीणःशब्दश्रवणादौ बुभुत्सहेतुत्वस्य दर्शनादिति भावः ! यदा प्रत्यक्षेण गृह्यत इति । प्रत्यक्षग्राह्यत्वं हेतुविशेषणमिति भाव । पश्चो हेतुश्चेति । प्रत्यक्षमाहं ज्ञानं मानसग्राह्यम्, प्रत्यक्षग्राह्यत्वे सति क्षणिकात्मविशेषगुणत्वादिति वक्तव्यं स्यात् । न च तथोक्तम् । अत इयं विबक्षा न संमतेति भावः । (स्वयम्प्रकाशत्वप्रयोगशिक्षणाम) तद्यवहारहेतुत्वादिति । स चासौ व्यवहारस्तद्यवहारः; न तु तस्य व्यव हार इति भ्रमितव्यम् । तथा हि सति द्वितीयहेतौ कृत्स्नस्यापि भविष्टत्वाद्विभागो न स्यात् । न च धर्मश्च व्यवहारश्च धर्मव्यवहारौ, तौ च तौ धर्मव्यवहारौ। च तद्धर्मव्यवहारावियुक्तावेव विभागात्, द्वितीयहेतौ न कृत्स्रानुपवेश इति वाच्यम् – तत्पदस्यैव धर्मपदस्थानीयत्वात् । अनुभूतिसामग्रीव्यतिरिति । न चानुभूतित्वस्यानुभूतिंव्यतिरिक्ततत्सामग्रीसापेक्षत्वेनान्याधीनत्वं स्यादिति वाच्यम् अनुभूतिसामग्यैवानुभूतित्वाप्युत्पत्तावनुमूतित्वस्यानुभूत्यन्याधीनत्वाभावात् । संत्या मप्यनुभूतावितरव्यतिरेकेणानुभूतित्वव्यतिरेके ह्यनुभूतित्वस्येतराधीनत्वम् । अनु भूतिसामग्रीमात्रेणैवानुभूतित्वस्यापि सिद्धवितराधीनत्वाभावात् । अत एव ज्ञान सामग्रीभत्रजःयस्य प्रमाणयस्य स्वतस्त्वमिति भावः । यद्वा अनुभूतिसामग्री व्यतिरिक्तत्यस्य सजातीयान्तरानपेक्षत्वमित्यर्थः । अत्रेत्थे हानुभानं प्रयोक्तव्यम्--अनुभूतिः स्वावश्यंभाविपाकट्यजनने सजाती यापेक्षानियमशून्या, स्वसंबधादर्थान्तरे । प्राक्ध्यहेतुत्वात्; यः स्वसंबन्धादर्थान्तरे प्राकट्यहेतुत्वात्; यः स्वसंबन्धादर्थान्तरे यद्धर्महेतुः स स्वस्मिन्नवश्यंभावितद्धर्भ जनने सजातीयापेक्षानियमशून्धः । एवं द्वितीयमप्यनुमानम् । यथा - तद्वेहं तदा मैत्राभाववत्, तदा मैत्रवत्यानुपलभ्यमानत्वात्; यत् यदा यद्वतया नोपलभ्यते, तत्