पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ श्रीरङ्गरामानुजमुनिविरचिता पादयतो घटस्य स्वस्य घटसंयुक्तवे घटान्तापेक्षण त् पुनरपि व्यभिचार इति वाच्यम्, स्वावश्यंभाविपदेनैव तद्वारणात् । न हेि घटजातीथस्य घटसंयुक्तत्वमवश्यं भवि । ननु-स्वसंवन्धादचेतने चेन्नसंयुक्तत्वमापादयतश्चेतनस्य स्वावश्यंभाविचेतन संयुस्त्वे सजातीयसपेक्षत्वदर्शनाचिारः तदवस्थ एव ; तथा धे ननियम्यत्वम चावश्यंभाविादेनैव तन्निस इति वाच्यम्, परमात्मनोऽपि भक्तनियम्यत्वात् । तथा स्वसंबधेन क्षत्रिये शिष्यत्वमापादयति ब्राह्मणे स्वस्मिन् शिष्यत्वस्य ब्राह्मणान्तर सापेक्षत्वेन व्यभिचारः । न च ब्राह्मणानां शिष्यत्वं नl३श्यंभा,ि उपनथः । प्रागपि मरणसंभवदिति वाच्यम् - दृष्टान्ते रुपादावपि चक्षुषत्वं नावश्यंभावीति वक्तुं शक्य त्वात् । अनुभूतेरपि प्राकट्यं नावश्यंभावीति वक्तुं शक्यत्वाच । तस्मादप्रतिष्ठित मेिदमनुमानमिति चेत् अत्र केचित्। – यत् स्वव्यतिरिक्त सवै स्मन् यद्यवहारे प्रवृत्तिनिमित्तम् तत स्वस्मिन् तद्यवहारे नेतरपेक्षमिति पर्यवसिोऽर्थः । ततश्चानुभूतिव्यतिरिक्त सर्वत्र * अनुसूयते, प्रकाशते ' इत्यादिव्यवहारे प्रवृत्तिनिमित्तभूतानुभूतिः स्वस्याम् (सिन्?) * अनुभूयते, प्रकाशते ? इत्यादिव्यवहारे ने पेक्षा सतावदिति सत्त स्थानीयनुभूतिरेकेत्यभिमानवतामीदृशानुमानमित्याहुः । पुले पुत्रत्वतबवहारहेताविति । न च पुत्रस्यापि पितृत्वेनार्थान्तरपदेनैव तद्वारणमिति वाच्यम् – षण्डुपुत्रस्य पितृवानधिकरणस्यापि संभवादिति भावः । स्वसंवन्धतुल्यकालेति । स्वसंवधतुल्यत् स्वसं.धान्याकालावृतित्वम् । ततश्च ज्ञानसंबन्धानन्तरोत्न्नपाकटयेऽपि तदस्तीति बोध्यम् । न हेि पित्रादिप्रयासनिधन योरिति । ननु प्रवासनिधनयोरपि जन्यजनकभावः संबन्धोऽम्येव, दायेऽपि पितृपु स्रत्वयोरनपायात् । प्रोषिते प्रेते च संयोगः परं नास्ति । तादृशसंयोगाभाव एकग्राभ गतेऽप्यस्त्येवेतेि प्रवासनिधनोपन्यासो व्यर्थ एवेति चेत्-न ; पञ्चाझिविद्य.क्तप्रकारेण चरमधात्वादिरूपस्य पुलस्य पितुश्च यः संवन्धः स पुत्रत्वोत्पादकः । “रेतःसियो गोऽथ ?' इति सूत्रेोक्तस्तु नातिचिरस्थायी । अत एव, 'पितुरुत्पादनक्रया । उत्पतिक्षण एवोत्पाद्यसंबन्धकरी, नान्यदा ) इत्युक्तं नयकिंवेक इति भावः ।