पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ८ उत्थ

- द्र भक्त्व इत्युक्तम् । तथात्त्रे रूपस्य चक्षुषत्वे चक्षुः:पेशवेन सध्यत्रिकलता स्यान्। तत्परिहारार्थं सजातीयापेक्षारहितेत्युक्तम् । तथापि चक्षुरादीनां सत्तामात्या सजाती यत्वेन साध्यवै कल्यं तदवस्थमित्यत उक्तम् अत्यन्तजा ?ीयेति । तथापि परज्ञानस्य ज्ञानान्तरसापेक्षव्यवहारानुगुण्यतया अंशे माधः स्यादित्य- उक्तम् अपेक्षा तत्परिहारार्थ परगतेत्युक्तम् । परग:श्र्मस्यानुभूतिनिष्ठत्वाभवद् वधः स्यादिति नियमरहितेत्युक्त परनिष्ठसत् जातीयसत्त्वभक्तवेऽयन्तसजातीयानपेक्षत्वेन सिद्ध साध्यता स्यात्; तत्परिहाराय स्वजन्येतिं विशेषप्रम् । स्वविजातीये स्वावश्यं भाविधर्मसजातीयस्वसंबन्धतुल्यकालधर्महेतुत्वादिति । धर्महेतुत्वादित्युके घटादिभिरनेकान्थं स्यात्, तेषां स्वपाकजरूपहेतुत्वात् । यत्रायुरेऽपि द्रव्यान्तरे संयुक्तत्वजनके, स्वस्य संयुक्तत्वे द्रव्थान्तरसापेक्षे ट्रध्वे व्यभिचारः स्यादित्यत उक्तः स्वस्य शरीरश्वे स्वसजातीयपरमामसापेक्षे चेने व्यभिचारः स्यात् ; तरिहाराय स्वस्थ पुलत्वे पित्रन्तरसापेक्षे पित,ि काuद्वैधीभावहेतै स्वस्थ द्वैधीभावे परश्चन्तय्सापेक्षे परशौ यभिचारः स्यात्; अतः स्वसंघन्धतुल्यकालेते व विशेषणम् । अनुमा नान्तरे चैवमेव पदप्रयोजनं द्रष्टव्यम् । 'अनुभूतिरिति व्यवहारे चेत्यर्थः' इत्ययं ग्रन्थः लेखकस्खलनकृतः, परत्र 'प्रकाशते 'इति व्यवहारस्यैोत्यद्यत्वेन.'अनुभूतिः इति व्यवहारस्यानुत्पद्यत्वादिति द्रष्टयम् । सोपाधिकमिति । संबन्धविशेष एवो पाधिरित्यर्थः । निरासको हीति । दीपस्य हि स्वप्रकाशत्वं स्वीयतमोनिरासकत्वं वा स्यात्, स्वविषयज्ञानोत्पादकत्वरूपं वा स्यात् । ज्ञानस्थ स्वप्रकाशत्वं च स्वविषय व्यवहारोत्पादकत्वमेव । अत्र न कवि विरोधं पश्याम इति भावः । यदि हि स्वस्यैव कार्यत्वं कर्तृत्वं च स्यात्, तदा हि परं विरोधः । स्वविषयव्यवहारो वा, स्वविषयज्ञानं