पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० श्रीरङ्गरामानुजमुनिविरचिता इत्यादिभाष्यं हेत्वन्तरपरतया व्याचष्ट-ज्ञातृत्वं भ्रान्तघुरुपेति । अस्मिन् पक्षे अतः शब्दस्य पूर्वोक्तपरामशिंनो न स्वारस्थमिति द्रष्टव्यम् । आडन्धविक्रियात्मकत्व येनि, साक्षिणि चेति भाष्ये दर्शनात् । अन्यथा विक्रियादव्याहंकारेति, अििक्रयायां साक्षिणीति च भाधणीयं स्यात् । न च ज्ञातृत्वस्य विकाररूपस्य कथं विकारित्वमिति वाच्यम्, विकारत्वत्रिकारित्वयोरविरोधात् । यद्यप्याश्रयश्रविभ.चे साम्यमप्रयोज्ञकम् द्रव्यगुणजातिव्यत्यादौ तथाऽभावात् । तथापि जडं जडश्रितमेब दृष्टम् ; विकारेि च विकार्याश्रितमेव दृष्टमिति भावः । केचितु, 'विकारिद्रव्याहंकारग्रन्थिस्यमविक्रिये साक्षिणि' इति भाष्यपर्यालोचनायाम्, निर्विकारे विकारस्यावस्थानं न संभवतीत्येव प्रतीयते ; न समयरेवाश्रयाश्रयिभाव इति मन्यन्ते । “नाह खल्वयमेवं संमत्या त्मा जानात्ययमहमस्मीतिं; नो एवेमानेि भूतानि ? इति सुपुप्तिविषयिणी श्रुतिः । अयं सुषुप्तः, ' अयमहमस्मि ? इत्येनं न जानातेि खल्वियर्थः । शरीरप्रतिबन्द्या निरस्तेति । शरीरस्य कर्तृत्वेऽप्यात्मनो भोक्तृत्वदर्श नादिति भावः । वस्तुतस्तु भेतृत्वमध्यात्मनो नात्येव । नन्वेवं संसारमोक्षयोर्वैयधि करण्यप्रसङ्गः, मोक्षस्य चिन्मात्रगतत्वात्, बन्धस्य कर्तृत्वादिरूपस्यान्त:करणगत त्वादिति चेत् – न; कर्तृत्वभोक्तवदिविशिष्टान्तःकरणाध्यासाधिष्ठानभाव एव चिन्मागतः संसार इत्यभ्युपगमेन दोषाभावात् दृष्टान्ते आपाद्यमानानात्मत्वसिद्भिशङ्कापरिहारपरमिति व्याख्याथ, अस्मिन् व्याख्याने दृष्टान्ते शरीरेऽनात्मत्वासिद्धिशङ्काया अमिन्दत्वादपरितुष्यन्नह-यद्वा अप्रामाणि काहँप्रत्ययगोचरत्वेन हीतेि । अस्मिन् पक्षे 'प्रामाझिकानां प्रसिद्धमेव ? इति भाण्यस्थ एवकारो यथाशब्दार्थः । अथवा तथाशब्दबलात् यथाशब्दोऽङ्कर्तव्यः । अस्मिन् पक्षे 'अहंभत्ययगोचरात् " इति भाष्यस्थप्रत्ययपदस्य भ्रान्तिरर्थ इति द्रष्टव्यम् । केचितु - “ ज्ञातुरपि विलक्षणत्वेन प्रमाणसिद्धत्वात्तथाभ्युपगन्तव्य मित्यर्थः । इत्यस्यानन्तरं यद्वेति पदं कोशेषु दृश्यते । न तस्य सम्यक्त्वं पश्यामः अप्रामाणिकाहंपत्यगोचर 'ति ग्रन्थस्य तथाहमर्थादिति भाप्यगतस्याहमथादिति पदस्यावतारिकारूपत्वस्यैव युक्तत्वात् । ततश्चाहंप्रत्ययगोचरादिति प्रतीकग्रहणमपि