पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भश्वप्रकाशिका (भ्रमाणानां सविशेषविध त्वम् ) त्यर्थः । अन्यदिति । उडुद्धसंस्करमेित्यर्थः। न च घटनुभवसंस्कारात घटस्यैद स्मृति विधयत्वम्, न घटज्ञानभ्येति वाच्यम् - तस्य स्वप्रकाशतथा तज्जन्यस्मृतेरेवानुभव तु ततस्तराम् । ततश्चाभुषितसंस्कारस्यापि नत्थानुमितिविध्यत्वं संभवत्येवेनेि छेत् न; 'स्वानुभवप्रत्यक्षसिद्धम्' इति तद्रोष्ठीसमयस्य तश्राप्यनिर्वाडादित्याशयात् । परोक्षत्वं विषयद्वारेति । अनुमित्यादिज्ञानस्यापि स्त्रवृतिवर्तमानस्य सर्वस्यापरोक्ष त्वादिति भावः । पक्षाविशिष्ट हेतुः स्यादिति । पक्षभिन्नो हेतुः स्यादित्यर्थः । ततश्च स्वरूपसिद्धो हेतुः स्यादिति भावः । पक्षव्यापको हेि हेतुरिति । पक्षवृतिः हेतुरित्यर्थः । किंचान्यस्येति । स्वसंबन्धादर्थान्तरे तच्यवहारहेतोरेव स्वव्यावृत्ति रूपत्वादिति भाव । व्यधिकरणसिद्धीति । स्वरूपासिद्धीत्यर्थः । तसश्च स्वसाधारण : इत्यनेन स्ववृत्तित्वे सति व्याप्यत्वमिति सिध्यति । ततश्ध सत्ताति रेवित्वं स्वसाधारणत्वोपयुक्तमित्यत्र तात्पर्यम् । अतो न ‘सत्तातिरेकेिभिः' इत्यस्य वैयध्यै शङ्कनीयम् । श्रीत्वखप्रकाशत्वे सिध्यत इत्यर्थ इति । वीरवे साधिते तेन स्वप्रकाशत्वं सिध्यतीत्यर्थः । ननु धत्वं खप्रकाशता च ज्ञातुर्विषयप्रकाशन स्वभावतयोपलब्धेरिति भाष्ये चीत्क्स्वपकाशत्वयोः साक्षात् साधिका [स्वविषय प्रकाशान्तयोपलझिधरितेि प्रतीयते । तस्या धीत्वसाधकत्वं ‘धीत्वस्य च स्वप्रकाशता साधकत्वमिति व्याख्याने भाष्यस्वारस्यं नास्तीत्यपरितोषादन्यथा व्याचष्ट -यद्वा धीत्वै थीस्वरूपमात्रमिति । धीस्वरूपं तस्य स्वप्रकाशत्वं च वेिषयपकाशन् स्वभावतयोपलब्धेः सिद्धमिति भाष्यार्थ इत्युक्तं भवति । आत्मस्फुरणमिति । आत्मस्वरूपस्फुरणमित्यर्थः । भाष्ये-स्वाभिमतद्विधाभेदैथेति । 'अनुत्पन्न त्वान्नित्यत्वम्; नित्यत्वादात्मनो नानात्वमपि न सहते ! इत्येवं परेण साधनादिति भावः । पूर्वं सविशेषत्वनिरासकहेतुभिः सविशेषत्वभुक्तमिति । 'अत कैश्चिद्विशेवैर्विशिष्टस्य । इति भाष्येणेत्यर्थः । अनन्तरं साध्यमैरिति । 'धियो हेि. धोत्वं स्वपकाशता च । इति भाष्घेणेत्यर्थः । ततः कतिपयेति । “ज्ञातुर्विष्य प्रकाशनस्वभावतेयोधलब्धेः ? इति भाष्येणेत्यर्थः । केचित्-' स्वाभिमतद्विधाभेदैः’ इति भाष्येणेत्यर्थः इति व्याचक्षते । 15