पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेष्यमिति कश्चित् पक्षः । विशेलणक् विशेष्यं च गृह्यते एव ; वैशिष्टयमालं न गृश्यत इत्यपरः । ननु विशेषणविशेष्यभावस्य सप्रतियोगिकत्वादिति । दण्ड विशिष्टज्ञाने दण्डे पुरुषप्रतियोगिकविशेषत्वं भासते; पुरुषे च दण्डप्रतियोगिक विशेष्यत्वम् । ततश्च विशिष्टज्ञानविषयीभूतस्य विशेषणविशेष्यभावस्य समतियोगि कत्वात् तज्ज्ञानं पूर्वमपेक्षितमिति भावः । । न च निर्विकल्पकवादिना विशेषण ज्ञानस्यैव हेतुत्वमभिप्रेतम्; न विशेष्यज्ञानस्येति वाच्यम्; अस्य मतान्तरत्वेनादोषात् । तस्यापि स्वभावस्य स्वचिशेष्यभूतमिति । जात्यादेर्विशेषणत्वम्वभावलक्षण विशेषणत्ववैशिष्टयं न प्रथमतोऽवगतम् , येन प्रथमतो विशिष्टप्रतीत्यभ्युपगमः स्यादिति भावः । विशेषणत्वं न प्रथभमितेि । बिशेषणवैशिष्टयमित्यर्थः । तुि स्वरूपमालमिति चेदिति । परस्परविशिष्टनेि व्यक्तिजातेितद्विशेषणत्वानि प्रति पन्नानीत्यर्थः । तावपि विशेषणविशेष्यभावश्यत्याससंभवादिति भावः । विशेषण तत्स्वभायोरिति । परस्परानन्वितां गृहीतयोर्विशेषणतस्वभावयोर्विशिष्टप्रतीति दशायां व्यत्यासः प्रसज्येत । अतस्तस्यापि धर्मान्तरभानेऽत्रानबस्थेति भावः । यदि व्यत्यासविशिष्टप्रतीतिप्राथम्यप्रसङ्गपरिहारायेतेि। ज्ञात्यदिस्वरूपस्यैव विशेषण स्वरूपतया वतुस्वभावादेव न ध्यत्यासलक्तिः । धर्मान्तरस्याभावात् वैशिष्टयामसत्क्तर्न विशिष्टप्रतीतिप्राथभ्यपमङ्गः, नाप्यनवस्थेति भावः । विशेषनया विशेष्यतया घ स्यादिति । न च विशेषणत्वस्य स्वरूपरूपस्य प्रामगृहीतवेऽपि विशेषणता वैशिष्टयस्याभानान्न विशेषतया प्रतीतिप्रसङ्ग इति वाच्यम् – तद्वैशिष्टयस्यापि म्वरूपरूपतया तस्यापि भानावश्यंभवादित्यत्र तात्पर्यात् । भिन्नसामग्रीवेद्यस्तु गोचरत्वमुपाधिः स्यादितेि । ननु निर्विकल्पकवादिमते विशिष्टज्ञाने विशेषण ज्ञानंथटिता सामग्री; विशेषणाज्ञाने तु न तथेति भिन्नसामग्रीवेद्यत्वस्योपाधेः पक्ष निष्ठत्वात् कथमस्य साधनाव्यापकत्वमिति चेत्-न ; वेिशेषणज्ञानहेतुत्वस्य दूषित वादित्यभिमानात् । पक्षध्यवच्छेद्यत्वद्वेिरिति; पक्षव्यवच्छेद्यत्वस्य सिद्रिथेन, स पक्षव्यवच्छेद्यत्वसिद्धिः: पक्षमात्रव्यावर्तकस्येत्यर्थः । यद्वा पक्षे साध्यव्यवच्छे दस्य सिद्धेरित्यर्थ । बाधोक्रीतपक्षेतस्त्वस्येवानुकूलतकें सस्युपधित्वसंभवादिति भावः ! तर्कबलादुपधित्वस्वीकारे दृष्टन्तद्वयमाह-यथा प्रध्वाभावेत्यादिना । अयं भावः-यथा साधनावच्छिन्नसाध्यव्यापके भावरूपत्वे सतिं आदिभत्वभ्पे आद्रेन्धन