पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पिण्डग्रहणेष्विति । अयं भावः-अनुवृत्तग्रणरहितेषु प्रथमेतग्रहणेषु सविकल्पक वाभावांपादनमिष्टमेव । अनुवृत्तिग्रहणरहितेषु प्रथमेतरत्वेन ग्रहणेषु सविकल्पकत्रा भावोषादमं तु न संभवतेि, प्रथमेतरत्वेन ग्रहणेऽनुवृत्तिग्रहणनैयत्यादिति । (भेदाभेदवादनिरासः) अत्र सहोपलम्भनियमसमानाधिकरणप्रत्ययौ भेदाभेदभाधकाविति । ननु केवलभेदे केवलाभेदे च सामानाधिकरण्यानुपलम्भादस्तु सामानाधिकरण्यं भेदा भेदसावकम् । कथं सहोपलम्भनियमो भेदाभेदसाधकः ? न तावत् सहोपलम्भनियम एकज्ञानविषयत्वम्, तस्यैक्येऽपि दृष्टत्वात ! नाप्येककालीनोपलम्भद्रविषयत्वम्, जातिव्यक्त्योस्तदभावात् । नाप्युपलम्भसामग्रीद्वयौगपद्यनियमः, उपलम्भैक्येन सामग्रया अप्येकत्वात् । न च घटटमहालम्बने उपलम्भैक्येऽपि . मामग्रीद्वित्वं दृष्टमिति वाच्यम् -. घटेन्द्रियसंनेिकों घटज्ञानसामग्री, पटेन्द्रिथसंनिकर्ष: पटज्ञान सामग्रोत्यन्यत्र सामग्रीभेदनिर्धारणसंभवात् तत्र तथा ; इद्द तथा अभावात् । न च जातीन्द्रियसंनिकर्षे जज्ञिानसाओ ; व्यक्तीन्द्रियसंनिकर्षे व्यक्तिज्ञानमामग्रोति भेद: संभवतीनि वाच्यम्, भेदस्य वा अभेदत्य वऽद्याप्यसिद्धेः, भेदसिद्धौ च तदधीनस्य सहोपलम्भनेियभस्य न भेदाधकत्वम्, अपित्वभेदमात्रसाधकत्वमित्येव स्यः । किंच एकशब्दानुविद्धप्रत्ययस्य * पुरोवत्येकः' इत्येवंरूपस्य जातिव्यक्तयैश्य साधकत्वेऽपि प्रथमपिण्डे भेदाग्रहणस्य कथमभेदसाधकत्वम् ? न हि प्रथमतोऽगृही सर्वेमसदियति । न िह विशेषादर्शनदशायामप्रतीतत्वादसत्त्वमिति काचिद्यक्तिर स्तीति चेन्-उच्यते-सहोपलभनियमो झेकोपलम्भविषयत्वमेव ! तवैक्यसाधकमेव । तद्वारा भेदाभेदसाधकम् । उत्तरत्र तदनुगुणवाक्यानां बहूनामुपलम्भात् । नन्वेवमेक शब्दानुविद्धप्रत्ययथमपेिण्डग्रहणाभेदग्रहणयोरप्यभेदद्वारा भेदाभेदसाधकत्वसंभवात् पृथकृय, तयोरभेदमाधकत्वमित्युक्तियुक्ता स्यात्, () तयाणामप्येकीकरणस्यैव युक्तत्वादिति चेत्-सत्यमभेदद्वारा भेदाभेदसाधकत्वांशे () त्रयाणामप्यैकराश्यम् । अपितु तयोर्युक्त्योरभ्युचयुक्तित्वमिति तयोरेकराशीकरणम् । अत एव न तद्विषय दूषणस्याप्यवकोशः, तयोरभ्युचयभालत्वादिति । स्वपर्यवसितेति । स्वनिष्ठेत्यर्थः ।