पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनेिविरचिता बहूनां विशेषणत्वमितेि । यद्यपि सिद्धान्ते निर्विकल्पकेऽपि देशादयोऽपि विशेषणं भवन्त्येव, तथाप्यनुवृत्त्वादेर्निर्विकल्के भानं नातीत्यत्र तात्वर्यात्(थैम् ?) । गन्धस्थले देशग्रहणस्य प्रथमतोऽभावमभिप्रेत्य तथोक्तमित्यपि केचित् । (जाते: संस्थानरूपत्वसमर्थनम्) संस्थानातिरेकिणोऽनेकेष्वेकाकारबुद्धिोध्यस्येति भाष्ये संस्थानाति रितैकाकारबुद्धिवोऽयनिषेधस्य पर्यवसानं द्वेधा धटते । संस्थानस्यैवैकाकारबुद्धिबोध्य त्वाद्वा तदतिरिक्तस्यैकाकारबुद्धिबोध्यस्याप्रामाणिकत्वाद्वेत्यभिप्रेत्य द्वेधापि व्याचष्ट-अयं सास्रादिमानित्यादिना । नामान्तरेणेतेि । अतिरेकादेऽपीति भाप्यस्य मतद्वयसंप्रतिपन्नसंस्थानस्यान्यतरसंप्रतिपन्नजात्यैक्यं न युक्तमिति तात्पर्यमिति भावः । केचितु-उभयसंप्रतिपन्नेनोपपौ नातिरिक्त कल्प्यमित्येव अतिरेकवादेऽपीति भाष्ये स्वरसतः प्रतीयत इति वर्णयन्ति । परैरवयविनोऽसमवायिकारणत्वेन संस्थानं स्वीकृतमिति । यद्यपि द्रव्यविशेषविषय एवेदम् ; न सर्वत्र- तथापि कचिज्ज्ञात्यपलापे तयैव रीत्याऽन्यत्रापि तदपलापः सिध्यतीति भावः । जातिमात्रो च्छेदश्च स्यादिति । सिद्धान्तेऽप्याकृतिरूपजातेः कचिदभ्युपगभात् स न स्यादि त्यर्थः। जात्यजातिसाधारणमिति । अवयवसंयोगविशेषशौकृयादिसाधारणमित्यर्थः। ननु स्वासाधारणमित्यत्र स्वशब्दः किमियादि । यद्यपि स्वशब्दस्य प्रकृतवाचिशब्दत्वात् यो यस्यासाधारणो धर्मः स तस्य संस्थेनम्, यथा ' असाधारण धर्मो लक्षणम्' इत्यत्र । संस्थानशब्दो हि सिद्धान्ते लक्षणशब्दापरपर्याय एव । अतो न विकल्पावकाशः- अथापि शिष्यबुद्धिविशदीकरणायायं प्रपञ्च इति द्रष्टव्यम् । एकशब्दप्रवृत्तिनिमित्तत्वाभावादितीति । न च गृष्टिधेनुक्शावष्कयण्यादिशब्दवत् खण्डगोवाचकमपि किंचित्पदं किं न स्यादिति वाच्यम्, अनुपलब्धेरिति भावः । कस्तर्हि जातिरूपसंस्थानानामिति । अवयवसंयोगविशेषरूपसंस्थानानां शौक्ल्या दिभ्यः संस्थानेभ्यः कथं भेदः? उभयोरपि संस्थानत्वस्याविशिष्टत्वेन, 'जातिवाचिन उत्पलशब्दस्य प्राधान्यम्; गुणवाचिनो नीलादिशब्दस्य गुणत्वम् । ततश्च नीलदि शब्दस्य विशेषणत्वमेव । अत एव, “विशेषणं विशेण्येण बहुलम्” इति ममाप्ती 'नीलोत्पलम्' इत्येव; न तु 'उत्पलनीलम्' इति इति व्यवस्था कथं स्यादित्याक्षेपाभि