पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ श्रीरङ्गरामानुजमुनिविरचिता धर्मस्य नदतट्रपविकल्या(कल्पन)नुपपत्तितः । धर्मिणस्तद्विशिष्टत्वभङ्गः नित्यसमो भवेत् । " इति तलक्षणम् । न चात्र मिथ्यात्वस्य सत्यत्वे धर्मिणो मिथ्यात्ववैशिष्टयभङ्ग उक्तः, किं त्द्वैतहानिः । प्रत्युत भेदः किं भिन्न वर्तते, उभिन्न इति त्वदुक्तरेव भिन्न दिविशिष्टमात्रनिरासकत्वेन स्वव्याघानाजातित्वम् । उक्त हेि, “एतामेव जाति भवष्टभ्य शुष्फ़तर्कादिनां वैद्धचार्वाकवेदासिनां वालयामोहहेतवः काठकोलाहला: इति । मुद्रे नटेऽपीति । न च नष्टस्यापि मुद्रस्य घटस्येव पारमाथ्र्यमस्तीति वाच्यम्--न हि पारमाथ्र्याभावे स दृष्टान्तः । यथा नाशकनाशे नाश्यानुन्मज्जनम्, एवं प्रपञ्चसत्यत्ववाधकस्य मिथ्यात्वसाधकहेतोत्रंधेऽपि बाध्यानुन्मज्जनमित्येतावता साम्येन दृष्टान्तत्वात् । बाधकज्ञानस्य मिथ्यात्वेऽपीति । बाधक्ज्ञानविषयस्य दृश्यावदिहेतोर्वाधेिऽपीत्यर्थः । साधनपारमथ्र्यापारमथ्र्यविचारस्यैव प्रस्तुतत्वादिति द्रष्टव्यम् । काकज्ञापकोवैषम्यादिति । ननु नाशकस्यापि बाधितत्वे नाशोऽसत्य एव । न हि मुद्वरस्य मिथ्यात्वे नाशस्य सत्यत्वमस्ति । अतः साग्यमेवेति चेत्-न; बाधकबाधे बाध्यसत्यत्वं स्यादिति मयो नाशकारक्रनाशे कार्थस्य नाशस्यानाशो दृष्ट ३ति त्वद्वचनमत्यन्तासंगतमिति तात्पर्यात् । वृन्तविषयभ्रमरत्वभ्रमवाधेऽपीति । कस्याश्चिभ्रमर्याः पलाशपुष्प उत्पन्नो दावभ्रमः पलाशवृन्तविषयभ्रमरबुद्धया निवृत: सोऽपि यत्र वृन्तविषयश्रमभ्रमो विशेषदर्शनान्तरेण निवृत्तः, तादृशाभ्रमस्थल इत्यर्थः । वक्ष्यति-'अमरी भ्रमरभ्रमेण वृन्ते यदावभ्रममाक्षिपत् पलाशम्' इति । परमार्थ भृतवृन्तबाध्यत्वदर्शनादिति। इदमुपलक्षणम्-पलाशयुष्यबाध्यत्वादित्यपि द्रष्टव्यम्। ततुश्च त्वन्मत इति । दावज्ञानान्तरोत्पत्तिप्रतिबन्धकत्वलक्षणमेव दावबाधकत्वं भ्रमरपारमार्थिकत्वभ्रमस्य । एवं च प्रपञ्चे दृश्यत्वमिथ्यात्वादिरूपसाध्यसाधनपारमाथ्यै भ्रमस्य प्रपञ्चसत्यत्वज्ञानान्तरोत्यतिप्रतिबन्धकत्वलक्षणे बाधकत्वं वक्तव्यम् । ततश्च तस्यापि भ्रमस्य निवर्तक्रान्तरमपि किंचिद्धर्मपरमार्थज्ञानमेवेति भ्रमपरंपरानुवृत्तिरेव स्यात्; नि:शेषाविद्यानिवृत्तिर्न स्यादिति भावः । नन्वेवं दावादिभ्रमस्थल इव प्रकृते भ्रमस्य भ्रमनिवर्तकत्वे निःशेषाविद्यानिवृतिर्न स्यादित्येव सुवचम्; किमर्थमेतावान् संरम्भ इति चेत्-सत्यम्, तत्पदार्थस्वरूपशिक्षार्थत्वेनादोत् । भ्रान्तिरूपोत्